________________
११३
हरिभद्रसूरिप्रबन्धः। इतर इति निजेशकार्यसिद्ध्या नृपतिममुं किल सांत्वयांबभूवुः । अणुतरविषये दृढं सहायं परिहरते हि क उग्रपौरुषोऽपि ॥ ११९ ॥ अथ निजगुरुसंगमामृतेन प्लुतकरणः शिरसा प्रणम्य पादौ। दृढतरपरिरब्ध एष तैश्च प्रविगलदश्रुजलो जगाद सद्यः ॥ १२० ॥ गुरुजनवचसां स्मरामि तेषां परतरदेशगतौ हि यैर्निषिद्धौ । निशमयत विभो प्रबन्धमेनं कुविनयशिष्यजनास्यतः प्रवृत्तम् १२१ इति चरितमसौ जगाद यावन्निजगुरुबन्धुपरासुतावसानम् । अथ निगदत एव हृद्विभेदं समजनि जीवहरो बली हि मोहः ॥१२२॥ विमृशति हरिभद्रसूरिरीदृक् किमु मम संकटमद्भुतं प्रवृत्तम् । . निरुपमचरितवीतरागभक्तरुदितमिदं निरपत्यतामनस्यम् ॥ १२३॥ विमलतरकुलोद्भवौ विनीतौ यमनियमोद्यमसंगतौ प्रवीणो। परमतविजयप्रकाशपंडापरिमलशोभितविद्वदर्चितांही ॥ १२४ ॥ अपि परतरदेशसंस्थशास्त्राधिगमरसेन गतौ च विप्रकृष्टम् । मदसुकृतवशेन जीवितांतं ययतुरुभावपि कर्म धिक् दुरन्तम् १२५ विनयमथ शमं स्मरामि किंवा गुरुपदसेवनमद्भुतं किमत्र । नहि मम सदृशैस्तु मन्दभाग्यैः परिचरणं ननु तादृशां विलोक्यम् ॥ मुखकृतकवलैर्विवृद्धदेही चटकशिशू इव यावजातपक्षौ । अवसर इह तौ सपक्षताया भृशमतिगम्य दृशोः पथं व्यतीतौ १२७ कलुषकुलनिवास एष देहः सुचरितकक्षवानलार्चिरुपः। इह हि किमधुना प्रधार्यतेऽसौविरहभरेऽपि सुशिक्षयोरवाप्ते १२८ विनिहततमनिर्वृतिप्रकारा कमिव विशेषमवानुमत्रधाऱ्याः । सुललितवचनौ विनेयवर्यावसव इमौ हि विना कर्यधुर्याः॥१२९॥ इति विमृशत एव सौगतानामुपरि महः समुदैनिजान्वयस्थम् । सुविहितपरिकर्मणाऽपि साध्यं न सहजमाभिजनं महत्तमेऽपि १३० अवददथ स सौगताः कृतास्ते परिभवपूर्णहृदो गृहस्थितेन । इति विनयविनेयसिंहसेनाद्भुतहतचित्तनिवृत्तिसापराधाः ॥१३॥ श्रुतविहितनयेऽपि युक्तमुक्तं सकलबलेन निवारणं रिपूणाम् । परभवगतिरस्य निर्मला नो य इह सशल्यमना लभेत मृत्युम्१३२ इति जिनपतिशासनेपि सूक्तं गुरुतरदोषमनुद्धतं हि शल्यम् । सुगतमतभृतो निवर्हणीयाः स्वसृसुतनिर्मथनोत्थरोषपोषात् १३३
१JH नामनस्यन्ति. २ JHविनिहततमनिवृत्तिप्रकारां कमिवं विशेष P omitsमवाप्नु.३ JHअजिहिंसानेनाप्लुत.४JH लालोप-शशल्य...मुक्त्यं ५ JH सत्वभंगः I...परमहंसहति...प्रसिद्धः.