________________
११४
प्रभावकचरिते इति मतिमति चेतसि प्रकामं गुरुमभिपृच्छय ययौ विना सहायम् । हृदि विगलितसंयमानुकंपो नगरमवाप च भूमिपस्य तस्य ॥ १३४॥ द्रुततरमभिगम्य पार्श्वमस्य प्रकटतरीकृतजैनलिङ्गरूपः। वदति च हरिभद्रसूरिरेवं जिनसमयप्रवराशिषाभिनंद्य ॥ १३५॥ शरणसमितवज्रपंजर त्वं शृणु मम वाक्यमशक्यसत्वभंग । इह हि मम विनेय उजिजीवे स परमहंस ईति त्वया प्रसिद्ध १३६ किमिव न तव साहसं प्रशस्यं क्षितिपशरण्यकृते हि लक्ष्यसंख्यम् । बलमवगणितं तदेतदभ्युन्नतिकरमूर्जितमस्ति नापरस्य ॥१३७ ॥ निरगममिह सांयुगीनवृत्तिः कृतिजनरीतित उन्नतप्रमाणः। अतिशयनिभनिष्टवानप्रबन्धान सुगतमते स्थितकोविदान् जिगीषुः। अवददथ स सूरपालभूपो समतवचापि विजेयतापदे ते । बलविवदननिष्टिता अजेया शलभगणा इव ते ह्यमी बहुत्वात् १३९ परमिह कमपि प्रपञ्चमठ्यं ननु विदधामि यथा भवद्विपक्षः। स्वयमपि विलयं प्रयाति येन प्रतिकूलं वचनं तु मे न गण्यम् १४० अवहितिपरवाचमेककां मे शृणु तवकाचिदजेयशक्तिरस्ति । अवदथ च कोहि मां विजेतावहति सुरी यदुदन्तमम्बिकाख्या १४१ वचनमिति निशम्य तस्य भूपः सुगतपुरे प्रजिघाय दूतमेषः । अपि स लघु जगाम तत्र दूतो वचनविचक्षण आदृतप्रपञ्चः॥१४२॥ सुगतगुरुमथ प्रणम्य तत्रावददिति भूमिपतिः स सूरपालः। स्फुरिततनुमिवेह भारतीं त्वामिति किलविज्ञपयत्यनल्पभक्तिः१४३ इह मम पुरमाजगाम चैको बुध इह बुद्धमताभियातिरूपः । भवति च भुवनत्रयप्रसिद्ध प्रतपति किंनु स एष वादिशब्दः १४४ इमिह महते त्रपाभराय प्रभवति तत् क्रियते तथा यथा सः।। निधनमविजयः स्वयं स यायात्कुरुतेऽन्योपियथा न कश्चिदित्थम्॥ दशबलमतनायकः समानप्रतिघवशो वदति स्म तं प्रमोदात् । इह जगति समस्तदेशनानाविबुधगणस्तमहं तिरश्चकार ॥ १४६ ॥ जिनसमयविशारदोऽपि कश्चिन्नवपठितो भवितात्र वावदूकः । वचनमदमहं ततो विनेष्ये गहनविकल्पसमूहकल्पनाभिः॥ १४७॥ स्वयमिह निधने कृतप्रतिज्ञः स किमु भविष्यति तद्वद त्वमेव । पटुवच इति जल्पति स्म दूतःप्रभुपुरतो मम गीःप्रवर्त्तते किम् १४८ तव पदकमलप्रसादतो वा किमिव न मे शुभमद्भुतं भविष्यत् । मतिरिति तु मम प्रकाशतोऽसौ परमिह तु प्रभुणा विचार्यकार्यम्॥
१JH सत्वभंगः I...परमहंसहति...प्रसिद्धः I २ JH मम वचापि विजेयतापदेन. ३ P किमिति. ४ P मिहमते.