________________
हरिभद्रसूरिप्रबन्धः ।
११५ लिखत वच इदं पणे जितो यः स विशतु तप्तवरिष्ठतैलकुण्डे । इति भवतु स्ववीप्सया प्रशंसामिह विदधेऽस्य गुरुर्विचारहृष्टः१५० विपुलमतिरथप्रगल्भदूतः पुनरपि वाचमुवाच दा_हेतोः। प्रभुचरणयुगं तथापि धाष्टात्पुनरपि विज्ञपयामि किञ्चिदत्र१५१॥ शृणुत वसुमती हिरण्यगर्भा भवति कदाचन कोऽपितत्र विद्वान् । अतिशयितमतिर्यतो जिनानां ननु भवतामवमानना हि माभूत्र५२ असदिह परिकल्पनं ममैतद्गगनतले कुसुमोद्गमेन तुल्यम् । जयिषु किल भवत्सु यत्सनाथा वयमिह तत्तु दृढं विचारणीयम्१५३ गुरुरवदद्सौ भयं किमेतद्भवति तथा भ्रम एव कस्य फल्गुः। अपि मयि चिरसेवितेपि यद्वःस्फुरति परेण विजेयताभिशङ्का१५४॥ क इव मम पुरःस कोऽपि विद्वाननधिगतस्वरप्रमाणभूमिः। मदगदमवमोचये न चैतदहमहो न निजं वहामि नाम ॥ १५५ ॥ स्वनृपतिपुरतः प्रशाधि वाचं मम विनियंत्रितवादिपौरुषस्य। वयमिह परवादिलाभतुष्टा अनुपदमेव समागमा मते यत् ॥१५६॥ वचनमिति निशम्य तस्य दूतो मुदितमनाः पुरमाययौ निजं सः। इति सुविहितबौद्धविप्रलम्भान्नृपतिमवर्द्धयदत्र सूरपालम् ॥ १५७॥ त्रिचतुरदिवसान्तरेण सोऽपि प्रभुरिह बौद्धमतस्य तत्र चायात् । अतिपरिवृढसेव्यपादपद्मोव्यधित स पूर्वपणेन वादमुद्राम् ॥१५८॥ विबुधपतिरचिन्तयन्नचासौ कथमहमस्य कृते स्मरामि ताराम् । अथ किमनया स्मृतापियासौ जितमदरिव्रजघातिनी न सद्यः१५९॥ इति स च परिचिन्त्य वादसंसोधुपहरिभद्रविशारदं समेत्य। अवददिदमनित्यमेव सर्व सदिति वचः परिसंस्कृतं यदेतत् ॥१६०॥ इह भवति च पक्ष एव हेतुर्जलधरवन्ननु संति चात्र भावाः। निगदित इति मूलपक्षजाते वदति ततःप्रतिवाद्यनूद्य सम्यक्६१॥ यदि सकलमिदं विनश्वरं तत् स्मरणविचारणचारिमा कथं स्यात्। तदिदमिह पुरावलोकितं यत्कथमियमित्यनुसंहतिर्घटेत ॥ १६२ ॥ वदति समतिसन्तति स्म तुल्या भवति सदैव सनातना मते नः। बलमिदमनु संहतश्च तस्या व्यवहरणं च तथैव वर्त्तते नः॥१६३॥ अनुवदति मुदा स्म जैनविद्वानिह मतिसन्ततिरप्रणाशिनी चेत् । सदिति सुविदितैव तत् ध्रुवं त्वानुमतिरिदं तव चात्मवाविरुद्धम् न विबुधकमनीयमेतदुच्चैः स्खसमयमूढमतिर्भवान्यदिच्छुः । ननु सकलविनश्वरत्वसन्द्यां परिहर तच्चिरकालतो विलग्नाम्॥१६५॥
इति वचननिरुत्तरीकृतोऽसौ
सुगतमतप्रभुराचचार मौनम् । १P. तथासौ. २ JH. वाद संसक्व ।