________________
' प्रभावकचरिते जित इति विदिते जिनैनिपेते
द्रुततरमेष सुतप्ततैलकुण्डे ॥ १६६ ॥ अथ कलकल उद्बभूव तेषां
दशबलविद्वदरीतिमृत्युभावात् । इति भवदपमानभारभुना
भयतरला अनशनमी निरीशाः ॥ १६७ ॥ अथ विशदविशारदस्तदीयो
वदनमतिः किल तद्वदेक एकः । समगतवत्तथैव पञ्चषास्ते
निधनमवापुरनेन निर्जिताश्च ॥ १६८॥ दशबलमतिशासनाधिदेवी
खरवचनैरुपलम्भिताथ सातैः। प्रतिघवशविसर्पिदर्पभङ्गै
रणकदिनेषु सुरस्मृतिर्हि कालः ॥ १६९ ॥ ननु शृणु कटपूतनेऽत्र यस्त्वा
मविरतमर्चयिता मुर्धा नरेन्द्रः। कुमरणविधिना मृतोऽधुना त
ननु भवती व गतासि हन्त तारे ॥१७०॥ मलयजघनसारकुङ्कुमादि
प्रकृतिविलपनधूपसारभोगैः। सुरभिकुसुमदामभिश्च सम्यक्
ननु तव दृषद् इव व्यधायि पूजा ॥ १७१ ॥ दृढतरपरिपूजिता भवाक्
विधुरतरावसरेऽपि सन्निधानम्। यदि न वितनुते ततः सदेहे
स किमुनहि क्रियते सुवस्तुभोगः॥ १७२ ॥ सविधतरभुवि स्थिताच तारा सुकरुणमानसवासना हमीषु । अनुचितमपि जल्पतो निशम्याप्रतिघमना मृदुवागिदं जगाद ॥ १७३॥ अतिशयशुंचमाप्य यद्वराका असदृशमप्यनुवादिनो भवन्तः।
१P. चिद्वदरी० JH. विद्वदारी. २ P समगतचेतथै० ३ P विसर्प ४ P अनु. ५ JH त्रायस्त्वमा. ६ P. ता सुधीन । ७ JH. शमिषुवि० ?