________________
हरिभद्रसूरिप्रबन्धः।
११७ कुवचनमपि नो मयात्र गण्यं
मम वच एकमिदं निशम्यताश्च ॥ १७४ ॥ अतिपरतरदेशतः समेतौ __ परसमयाधिगमाय सङ्गतौ च । जिनशिरसि पदप्रदानपापा
भ्युपगमरूपनिभेऽप्यमुक्तसत्वौ ॥ १७५॥ प्रतिकृतमिह तत्कृते दधानौ
झटितिरनेन हतौ पलायमानौ । नयपथपथिको महामुनी य
त्तप्रकृतिकृतिरस्ति तस्य दुष्कृतस्य ॥ १७६॥ तत इति समुपेक्षितो मया य
द्विलयमवाप निजैनसैव तस्मात् । विदधति ननु यस्य पक्षमुच्चै
ननु मम तेपि सदा ह्युपेक्षणीयाः॥ १७७॥ इति शुचमपहाय यूयमेते ।
निजनिजभूमिषु गच्छताद्य धीराः। दुरितभरमहं हि वो हरिष्ये
निजसन्तानसमेषु को हि मन्युः ॥ १७८ ॥ इति वचनमुदीर्य सा तिरोधा
निजनिजदेशगणं ययुश्च तेऽथ । अपरतरपरेषु बौद्धवृद्धा
उपशममापुरिति श्रुतप्रवृत्त्या ॥ १७९ ॥ इह किल कथयंति केचिदित्थं - गुरुतरमंत्रजयप्रभावतोऽत्र । सुगतमतबुधान् विकृष्य तप्ते
ननु हरिभद्रविभुर्जुहाव तैले ॥१८०॥ अथ जिनभटसूरिरत्रकोपा
द्भुतमिह शिष्यजने निजे निशम्य । उपशमनविधौ प्रवृत्तिमाधा. दिह हरिभद्रमुनीश्वरस्य तस्य ॥१८१ ॥ मृदुवचनविधिं च शिक्षयित्वा
यतियुगलं प्रजिघाय तत्करे च । १ Pच तेन. २ P तत्प्रकृतिरस्ति तस्य; JH महान्यतीयत्तत्प्रतिकृतिरस्ति दुष्कृतस्य ३ P. हायुपे०. ४ JH omit this verse. ५ JH मेव तप. ६ P• नोत्र.