________________
११८
प्रभावकचरिते
क्रुध उपशमनाय तस्य गाथा
त्रयमिह समरदिनेशवृत्तबीजम् ॥ १८२ ॥ प्रययतुरथ तेऽपि तस्य राज्ञो
नगरमिदं मिलितौ च तस्य सूरेः। वच इह कथयांबभूवतुस्तद्
गुरुभिरमुं प्रति यन्निदिष्टमिष्टम् ॥ १८३ ॥ प्रतिघगुरुतरोर्भवान् फलोदा
हरणमिमा अवधारयस्व गाथाः। • इति किल वदतोस्तयोः स भक्त्या
गुरुलिखिताः समवाचयत्ततस्ताः॥१८४॥ तथाहि-गुणसेणअग्गिसम्मा सीहाणं
दाय तहपि आपुत्ता। सिहिजालिणि माइसुआधण
धणसिरिमो मोयपइभब्जा ॥ १८५॥ जय विजयाय सहोअरधरणो लच्छीअ तहप्पई भन्जा। सेण विशेणा पित्तिय उत्ताजम्मम्मि सत्तअए॥ १८६ ॥
गुंणचन्दअवाणमन्तरसमरा इव्व गिरिसेण पाणोय ।
एगस्सत उमुरकोऽणन्तो अन्नस्स संसारो ॥ १८७॥ इति चतुरमतिय॑मृक्षदेवं
हृदि हरिभद्रविभूस्तदेतदीदृक् । अपि वनमुनिपारणस्य भङ्गे
भवनचकेप्यनु वर्ततेस्म वैरम् ॥ १८८ ॥ पुनरिह मयकानुकोपदावा
नलबहलार्चिरुदस्तचेतनेन । दशबलमतसङ्गिनः प्रपञ्चं
विरचयिता विनिबर्हिताश्च भूम्ना ॥ १८९ ॥ अतिविरतचिरप्ररूढमिथ्या
ग्रहसमयैरिव विप्रलब्धचेताः। अपि जिनमतबोधमाकलय्यासुकृतवशेन तमःप्रवेशमाधाम् ॥ १९० ॥
१JH सूरौ. २ P पियामायसुआ. ३ JH धरणो बला अत हयइ भन्जा सेणा पित्तिय उत्ता० ४ JH गुण चंदबाणमंतरा इच्चागि ञ्च एंगस्सतउ सोरेका. ५ J H °संगे भवनकेप्यमुवर्तते स्म वैरं.