________________
हरिभद्रसूरिप्रबन्धः । नरकगमनदौ«दं हि जीव
स्य तु ममदौहृदमायतौ दुरन्तम् । निजमिह परिबोध्य जीवमित्थेम्
प्रकटमुवाच तपोधनाग्रतोऽसौ ॥ १९१॥ इह जनगुरुवत्सलत्वबुद्ध
रनृणविधिः किमवाप्यते कथञ्चित् । नरकगतिसमीपगामिनं मां
प्रति घटते भृशमुद्दिधीर्षया यः ॥ १९२॥ त्रिविधमथ विरोधमौझ्य सूरि
भृशमभिपृच्छ्य च तं नृपं महेच्छः। निरगमदविलम्बितप्रयाणैः
समगत शीघ्रमसौ गुरुक्रमाणाम् ॥ १९३॥ शिरसि च विनिधाय तान्नतास्योऽ__ गददथ गद्गदगीभरः स तत्र । गुणविशदविनेयमोहतोऽहम्
प्रभुचरणाम्बुजसेवया वियुक्तः ॥१९४॥ श्रुतविहिततपः प्रदाय बाढं
मम कलुषं परिशोधयध्वमाशु । अविनयसदने विनेयपाशे
प्रगुणतरां मतिमातनुध्वमुश्चैः ॥ १९५॥ गुरुरिह परिरभ्य गाढमेनं
कृतविजिनार्हतपः प्रदाय चावा । कलुषसुकृतयोर्विधौ समर्था
ननु हरिभद्रसमाः क्व सन्ति शिष्याः ॥ १९६॥ खरतरतपसा विशोषयंतं ___ तनुमतनुः स विनेययोर्वियोगः । परिदहति भृशं मनस्तदीयं
जलनिधिमौर्व इव प्रकाशकीलः ॥ १९७ ॥ अतिशयपरिदूनमेवमम्बा ।
धृतिविधये सुतरामुवाच वाचम् । क इव सविरहस्तवार्दनेऽसौ
गृहधननन्दनसङ्गवर्जितस्य ॥ १९८ ॥ १P जीवत्यजननुदोहृद०. २ J_H मित्र. ३JH. र्ष यायां. ४J H विविध.