________________
१२०
प्रभावकचरिते . जिनसमयविचित्रशास्त्रसेवा
निपुणविशुद्धमते वकर्मपाकः। फलवितरणकृन्निजः परो वा
तदिति विडम्बकमेव कोविदानाम् ॥ १९९ ॥ गुरुपदवरिवस्ययाभिरामः
सफलय शुद्धतपस्यया स्वजन्म । शरदि घन इव प्रलीनमेतत्
भवति विकर्म यथा तनु त्वदीयम् ॥ २०० ॥ अवगथ हरिभद्रसूरिरम्बे
जडमतिमादृशशिष्यकावलम्बे । न किमपि मम चेतसो व्यथा
द्विशदविधेयविनेयमृत्युमुख्यम् ॥२०१॥ दृढमिह निरपत्यता हि दुःखम्
गुरुकुलमप्यमलं मयि क्षतं किम् । इति गदति जगाद तत्र देवी
शुणु वचनं मम सूनृतं त्वमेकम् ॥ २०२॥ नहि तव कुलवृद्धिपुण्यमास्ते
ननु तव शास्त्रसमूहसन्ततिस्त्वम् । इति गदितवती तिरोदधे सा
श्रमणपतिः स च शोकमुत्ससर्ज ॥२०३॥ मनसि गुरुविरोधवर्द्धिगाथा
त्रितयमिदं गुरुभिर्गुरुप्रसादात् । प्रहितमभिसमीक्ष्य सैष पूर्व
स च समरार्कचरित्रमाततान ॥ २०४ ॥ पुनरिह च शतोनमुनधीमान्
प्रकरणसार्द्धसहस्रमेष चके। जिनसमयवरोपदेशरम्यं
ध्रुवमिति सन्ततिमेषताञ्च मेने ॥ २०५॥ अतिशयहृदयाभिरामशिष्य
द्वयविरहोर्मिभरेण तप्तदेहः। निजकृतिमिह संव्यधात्समस्तां
विरहपदेन युतां सतां स मुख्यः ॥ २०६ ॥ १ JH विदुं च कामचको० २JH चरितस्य यामि०