SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ हरिभद्रसूरिप्रबन्धः । १२१ प्रकरणनिकरस्य विस्तरार्थ हृदयविबाधकचिन्तयाभिधान्तः। अणुतरजिनवासिनं सकार्पा सिक इति नामकमैक्षताथ भव्यम् ॥ २०७॥ शुभशकुनवशात् स्वकीयशास्त्र प्रसरणकारणमेष तं व्यमृक्षत् । तत इह विरलं च भारतादि श्रवणसतृप्तमुवाच हृद्यविद्यः ॥ २०८ ॥ तथाहि-एयंलोइय कव्वं गद्धहलिंडं च वाहिरे सिद्धं जं अन्तो फोडिजंतं तुसबुसभुसमीसियं सब्बम् ॥ २०९ ॥ अवददथ वणिक् विवेचयस्व प्रकटमिदं स ततो जगाद सूरिः। अनृतभरभृतेष्वहो जनाना मितिहासेषु यथा तथा प्रतीतिः ॥ २१०॥ इति विशकलनाय मूढतायाः। कितवकथानकपञ्चकं तदुक्तम् । विषधर इति मंत्रवत्तुमिथ्या ग्रहविषविस्तरसंहृतिप्रवीणम् ॥ २११॥ श्रवणत इह तस्य जैनधर्मे प्रकटमतिर्बुबुधे ततो जगाद । वितरणमुख एष जैनधर्मों द्रविणमृते स विधीयते कथं नु ॥ २१२ ॥ गुरुरथ समुवाच धर्मकृत्या द्रविणभरो भविता तव प्रभूतः। अवददथ स चेदिदन्तदाहं सपरिजनः प्रभुगीर्विधायकः स्याम् ॥ २१३॥ वदति गुरुरथ त्वमेकचित्तः शृणु बहिरद्य दिनात्तृतीयघने । परविषयवणिज्यकारकोऽथ स्फुटमिह वस्तुनिधानमेष्यतीति ॥ २१४ ॥ तदुप तव गतस्य वस्तुजातं तदथ समोढुतितः समर्घमाप्यं । १JH वान्तः २ P वासनं. ३ JH चिरभवं. ४JH अनृततरस तेप्य०५JH प्रवृत्ति. ६J H विषधरवति. ७J H समावृति. 11
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy