SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२२ प्रभावकंचरिते गुरुतरममुतो धनञ्च भावि व्यवहरणात्सुकृतोदयेन भूना ॥ २१५ ॥ विहितमिह मया हि शास्त्रवृन्दं ननु भवतां भुवि पुस्तकेषु लेख्यम् । तदनु यतिजनस्य ढौकनीयं प्रेसरति सर्वजने यथा तदुच्चैः ॥ २१६ ॥ सुकृतिजनशिरोमणिस्ततोऽसाविति वचनं विदधे गुरोरलङ्घयम् । तदनु च तदिदं भवार्णवस्य प्रतरणहेतुतरीसमं प्रवृत्तम् ॥ २१७ ॥ अथ च चतुरशीतिमेकपीठे जिनसदनानि महालयानि तत्र । अपरजनमपि प्रबोध्य सूरिः सुमतिरचीकरदुच्चतोरणानि ॥ २९८ ॥ चिरलिखितविशीर्णवर्णभग्न प्रविवरपत्रसमूहपुस्तकस्थम् । कुशलमतिरिहोद्दधारजैनो पनिषदिकं स महानिशीथशास्त्रम् ॥ २१९ ॥ श्रुतिपरिचयतो निजायुरन्तः सुपरिकलय्य गुरुक्रमागतोऽसौ । गणविषयनिराशतोच्छचेतः कदनविरागविशेषसंसृताङ्गः ॥ २२० ॥ अनशनमनघं विधाय निर्या मकवरविस्मृतहार्दभूरिबाधः । त्रिदशवन इव स्थितः समाधौ त्रिदिवमसौ समवापदायुरन्ते ॥ २२९ ॥ इत्थं श्रीहरिभद्रसूरि सुगुरोश्चित्रं चरित्राद्भुतम् । स्मृत्वा विस्मयकारणं पटुतरप्रज्ञालपूज्यं बुधाः ॥ २२२ ॥ मादृक् प्राथमकल्पिकावलिधियां जीवातुपाथेयवत् । शृण्वन्तु प्रकटं पठन्तु जयताच्चाचन्द्रसूर्यस्थिति ॥ २२३ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । १ PH घनं. २ P omits प्रस... ने. ३ P सु. कृत. ४ Pवशीर्ण भग्न प्रविचर. ५ JH प्रायम. ६JH omit this and give ग्रंथ ३५ अक्षर ३ ३ अयं २०४३ ॥ अक्षर ३ ॥ ९० ॥
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy