________________
श्रीमल्लवादिप्रबन्धः। - १२३ श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीहारिभद्रीकथा
श्रीप्रद्युम्नमुनीन्दुना विशदितःशृङ्गोऽयमष्टाधिकः॥२२४॥ पुरुषोत्तम परमेष्ठिन् गिरीश गणनाथ विबुधवृन्दपते ।
प्रद्युम्नब्रह्मरते सुमनोमय किमसि नहि तपनः ॥ २२५ ॥ इति हरिभद्रसूरिप्रबन्धः । ग्रन्थ ३५४ अ० ३ उभयं २०४३ अ०३॥
श्रीमलवादिप्रबन्धः। संसारवाद्धिविस्तारान्निस्तारयतु दुस्तरात् । श्रीमल्लवादिसूरिवों यानपात्रप्रभः प्रभुः॥१॥ गौसत्तारघना यस्य पक्षाक्षीणलसद्भुवि (?)। अवका लक्षभेत्री च जीवामुक्ता सुपर्वभृत् ॥२॥ जडानां निबिंडाध्माय प्रवृत्तं वृत्तमद्भुतम् । प्रमाणाभ्यासतः ख्याते दृष्टान्तं किंचिदुच्यते ॥३॥ रेणुप्राकारतुङ्गत्वाद्रथेनागच्छतो रवेः । रथाङ्गमिव संलग्नं शकुनीतीर्थनाभिभृत् ॥ ४ ॥ हारनिकरैर्युक्तं वप्रनेमिविराजितम् । पुरं श्रीभृगुकच्छाख्यमस्ति स्वस्तिनिकेतनम् ॥ ५॥ चारुचारित्रपाथोधिशमकल्लोलकेलितः। सदानन्दो जिनानन्दः सूरिस्तत्राच्युतः श्रिया ॥६॥ अन्यदा धनदानाप्तिमत्तश्चित्ते छलं वहन् । चतुरङ्गसभावशामज्ञातमदविभ्रमः ॥७॥ चैत्ययात्रासमायातं जिनानन्दमुनीश्वरम् । जिग्ये वितंडया बुद्ध्या नन्दाख्यः सौगतो मुनिः॥८॥ युग्मम् ॥ पराभवात्पुरं त्यक्त्वा जगाम वलभी प्रभुः। प्राकृतोऽपि जितोऽन्येन कस्तिष्ठेत्तत्पुरांतरा ॥९॥ तत्र दुर्लभदेवीति गुरोरस्ति सहोदरी। तस्याः पुत्रास्त्रयः सन्ति ज्यष्टो जिनयशोऽभिधः॥१०॥ द्वितीयो यक्षनामाभून्मल्लनामा तृतीयकः। संसारासारता चैषां मातुलैः प्रतिपादिता ॥ ११ ॥ जनन्या सह ते सर्वे बुवा दीक्षामथादधुः। संप्राप्ते हि तरंडे कः पाथोधिं न विलंघयेत् ॥ १२ ॥ लक्षणादिमहाशास्त्राभ्यासात्ते कोविदाधिपाः। अभूवन् भूपरिख्याताः प्रज्ञायाः किं हि दुष्करम् ॥ १३ ॥ १JH गौः सत्वारथ 'गलघुवि । अवक्वाक्षते वीव... J र्वभूत् ॥ २ P निविधा. J निवडा. ३ P प्रवृत्तैर्मृत्त० ४ P न्तः. ५ P जित.