________________
१२४
प्रभावकचरिते
पूर्वर्षिभिस्तथा ज्ञानप्रवादाभिधपञ्चमात् । नयचक्रमहाग्रन्थपूर्वाच्चके तमोहरः ॥ १४ ॥ विश्रामरूपास्तिष्ठन्ति तत्रापि द्वादशारकाः। तेषामारंभपर्यन्ते क्रियते चैत्यपूजनम् ॥ १५॥ किंचित्पूर्वगतत्वाच्च नयचक्रं विनापरम् । पाठिता गुरुभिः सर्व कल्याणीमतयोऽभवत्(न्) ॥१६॥
त्रिभिर्विशेषकम् एष मल्लो महाप्राज्ञस्तेजसा हीरकोपमः। उन्मोच्य पुस्तकं बाल्यात्स स्वयं वाचयिष्यति ॥ १७॥ तत्तस्योपद्रवेऽस्माकमनुतापोऽतिदुस्तरः। प्रत्यक्षं तजनन्यास्तजगदे गुरुणा च सः॥१८॥ वत्सेदं पुस्तकं पूर्व निषिद्ध मा विमोचयः । निषिद्धति विजह्वस्ते तीर्थयात्राचिकीर्षवः॥ १९॥ मातुरप्यसमक्षं स पुस्तकं वारितद्विषन् ।
उन्माय॑ प्रथमे पत्रे आर्यामेनामवाचयत् ॥ २० ॥ तथाहि-विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकमचोचत् ।
जैना सछासनमनृतं भवतीति वैधय॑म् ॥ २१॥ अर्थ चिन्तयतोऽस्याश्व पुस्तकं श्रुतदेवता । पत्रं चाच्छेदयामास दुरंता गुरुगीःक्षतिः ॥२२॥ इतिकर्तव्यतामूढो मल्लश्चिल्लत्वमासजत् । अरोदीत् शैशवस्थित्या किं बलं दैवतैः सह ॥ २३ ॥ पृष्टः किमिति मात्राह मवृत्तात्पुस्तकं ययौ । संघो विषादमापेदे ज्ञात्वा तत्तेन निर्मितम् ॥ २४॥ आत्मनः स्खलितं साधु समाचरयते स्वयम् । विचार्येति सुधीर्मल्ल आराध्नोत् श्रुतदेवताम् ॥ २५॥ गिरिषण्डलनामास्ति पर्वतस्तहहान्तरे । रूष्यनिष्पावभोक्ता स षष्ठः पारणकेऽभवत् ॥ २६ ॥ एवमप्यर्दितसंघो वात्सल्याज्जननीयुतः। ईदृक श्रुतस्य पात्रं हि दुःप्रायं भावि शीर्यताम् ॥ २७ ॥ विकृति ग्राहितस्तेन चतुर्मासिकपारणे।।
साधवस्तत्र गत्वास्य प्रायच्छन् भोजनं मुनेः ॥ २८ ॥ १JI पूर्व० २ J उन्माथ्य. JH० थमेपत्रेत्यार्थ० ३ JH अत्मना० ४ ध्या. ५JH रूक्षनिष्पाव. षष्ठपारणको० ६ JH मर्यादेनः संघावात्सल्याज्ज.