________________
श्रीमल्लवादिप्रबन्धः।
१२५ श्रुतदेवतया संघसमाराधितया ततः। ऊचे तदा परीक्षार्थ को(के)मिष्टा इति भारतीम् ॥ २९॥ वल्ला इत्युत्तरं प्रादान्मल्लः फुल्लतपोनिधिः। षण्मासान्ते पुनः प्राह वाचं केनेति तत्पुरः ॥ ३०॥ .. उक्ते गुडघृतेनेति धारणातस्तुतोष सा। वरं वृण्विति च प्राह तेनोक्तं यच्छ पुस्तकम् ॥ ३१॥ श्रुताधिष्ठायिनि प्रोचेऽवहितो मद्वचः शृणु। ग्रन्थेऽत्र प्रकटे कुटुंढेषिदेवा उपद्रवम् ॥ ३२॥ श्लोकेनैकेन शास्त्रस्य सर्वमर्थ ग्रहीष्यसि । इत्युक्त्वा सा तिरोधत्त गच्छं मल्लश्च सङ्गतः ॥ ३३ ॥ नयचक्रं नवं तेन श्लोकायुतमितं कृतम् । प्राग्ग्रन्थार्थप्रकाशेन सर्वोपादेयतां ययौ ॥ ३४॥ शास्त्रस्यास्य प्रवेश हे संघश्चके महोत्सवात् । हस्तिस्कन्धाधिरूढस्य प्रौढस्य च महीशितुः॥३५॥ अन्यदा श्रीजिनानन्दप्रभुस्तत्रागमच्चिरात् । सूरित्वे स्थापितो मल्लः श्राद्धैरभ्यर्थ्य सहुरुम् ॥ ३६॥ तथा जिनयशोनामा प्रमाणग्रन्थमादधे । अल्लभूपसुभेवादि(?) श्रीनन्दकगुरोगिरा ॥ ३७॥ शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे । न्यासं चक्रेऽल्पधीवृन्दबोधनाय स्फुटार्थकम् ॥ ३८॥ यक्षेण संहिता चक्रे निमित्ताष्टाङ्गबोधनी। सर्वान् प्रकाशयत्यर्थान् या दीपकलिका यथा ॥ ३९ ॥ मल्लः समुल्लसन्मुल्लीफुल्लवेल्लद्यशोनिधिः । शुश्राव स्थविराख्यानात् न्यकारं वौद्धतो गुरोः ॥४०॥ अप्रमाणैः प्रयाणैः स भृगुकच्छं समागमत् । संघः प्रभावनां चक्रे प्रवेशादिमहोत्सवैः ॥४१॥ बुद्धानन्दस्ततो बौद्धानन्दमद्भुतमाचरत् । श्वेताम्बरो मया वादे जिग्ये दर्प वहन्नमुम् ॥ ४२ ॥ यस्योन्नमत्यपि भूर्नावलेपभरभारिता। जगभ्रष्टं कृपापात्रं मन्यते स धरातलम् ॥४३॥ जैनर्षीनागतान् श्रुत्वा विशेषादुपसर्गकृत् । संघस्याथ महाँकोशो विशां वृन्दैरवीवदत् ॥ ४४ ॥ १ Pऽन्यदा. २ P च. ३ J_H स्यैव. ४ P जित०. ५ J H आसं. ६ P गुरौ. ७ JH मथ०. ८ P काशो.