________________
१२६
प्रभावकचरिते पूर्वजःश्वेतभिक्षूणां वादमुद्राजपोद्धरः।। स्याद्वादमुद्रया सम्यगजेयः परवादिभिः॥४५॥ परं सोऽपि मयात्मीयसिद्धान्तैः प्रकटीकृतैः।। कलितश्शुलुके कुम्भोद्भवेनेव पयोनिधिः॥४६॥ युग्मम् । किं करिष्यति बालोसावनालोकितकोविदः । गेहे नदीसारमेय इवासारपराक्रमः ॥४७॥ काचित्तस्यापि चेच्छक्तिस्ततो भूपसभापुरः । स्वं दर्शयतु येनैणं वृकवद्रासमानये ॥४८॥ मल्लाचार्य इति श्रुत्वा लीलया सिंहवत् स्थिरः। गम्भीरगीर्भरं प्राह ध्वस्तगर्यो द्विषन्नृणाम् ॥ ४९ ॥ जैनो मुनिः शमीकश्चिदविवादावदातधी। जिनो जित इति स्वेच्छा वादोऽयं किंघटापटुः ॥ ५० ॥ अथवास्तु मुधा चित्तावलेपं शल्यवदृढम् । अलमुद्धर्तुमेतस्य सजोऽस्मि विलसजयः॥ ५१ ॥ संजनो मे सुहृद्वापि ज्ञास्ये स्थास्यसि चेत्पुरः । तिष्ठन् स्वकीयगेहान्तर्जनो भूपेपि कद्वदः ॥५२॥ प्रत्यक्षं प्राश्निकानां तन्मध्येभूपसभं भृशम् । अनूद्यतां यथा प्रज्ञाप्रामाण्यं लभ्यते ध्रुवम् ॥ ५३॥ इत्याकर्ण्य वचः स्मित्वा बुद्धानन्दोप्युवाच च । वावदूकः शिशुः प्रायः कस्तेन सह संगरः॥ ५४॥ अस्तु वासौ निराकृत्य एव मे द्विषदन्वयी। शुणस्तोकमिवासाध्यः कालेनासौ हि दुर्जयः ॥५५॥ ततः क्रूरे मुहूर्ते च तौ वादिप्रतिवादिनौ । संसद्याजग्मतुः सभ्याः पूर्ववादं लघोर्ददुः॥५६॥ मल्लाचार्यः स षण्मासी यावत्प्राज्ञार्यमावदत् । नयचक्रमहाग्रन्थाभिप्रायेणात्रुटद्वचः॥ ५७॥ नीवधारयितुं शक्तः सौगतोऽसौ गतो गृहम् । मल्लेनाप्रतिमल्लेन जितमित्यभवन् गिरः॥ ५८॥ मल्लाचार्ये दधौ पुष्पवृष्टिं श्रीशासनामरी ।
महोत्सवेन भूपालः स्वाश्रये तं न्यवेशयत् ॥५९ ॥ १JH मूचा. २ P केलि. ३ J_H जैनो ...श्वे...टांपद. ४ JH मेसुहृदापि ज्ञास्येस्थास्ये. ५J H तिष्ठन् गेहांतजेता भूयेधिकद्वयः. ६ P शिशुप्रायः. ७ J H ०दन्वयात्सकु० (१) ८ JH omit ऽसौगतो and नाप्रतिमल्ले.