________________
श्रीमल्लवादिप्रबन्धः।
१२७ बुद्ध न्दपरीवारमपनाजनया ततः। राजा निर्वासयनत्र वारितोऽर्थनपूर्वकम् ॥ ६०॥ बिरूद तत्र वादीति ददौ भूपो मुनिप्रभोः । मल्लवादी ततो जातः सूरिभूरिकलानिधिः ॥ ६१ ॥ बुद्धानन्दो निरानन्दः शुचा निष्प्रतिभो भृशम् । रात्रौ प्रदीपपादाय प्रारेभे लिखितुं ततः॥१२॥ तत्रापि विस्मृति यावे पक्षहेतुकदम्बके । अनुत्तरो भयालज्जावैशसात् स्फटिते हृदि ॥ ६३ ॥ मृत्युं प्राप खटीहस्तो रक्षा प्रतिय॑लोक्यत । मल्लेन च ततोशोचि वाद्यसो हो दिवं गतः ॥ ६४ ॥ कस्य प्राणादसौ प्रज्ञा प्रगल्भां स्वां प्रबुद्धवान् । अवज्ञाता शिशुत्वान्नः स्वयमीक् च कातरः ॥६५॥ वलभ्याः श्रीजिनानन्दः प्रभुरानायितस्तदा । संघमभ्यर्थ्य पूज्यः स्वः सूरिणा मल्लवादिना ॥६६॥ माता दुर्लभदेवीति तुष्टा चारित्रधारिणी। बन्धुना गुरुणाभाणि त्वं स्थिता पुत्रिणीधुरि ॥ ६७ ॥ गुरुणा गच्छभारश्च योग्ये शिष्ये निवेशितः। मल्लवादिप्रभौ को हि स्वौचित्यं प्रविलङ्घयेत् ॥ ६८ ॥ नयचक्रमहाग्रन्थः शिष्याणां पुरतस्तदा। व्याख्यातः परवादीभकुम्भभेदनकेसरी ॥ ६९॥ श्रीपद्मचरितं नाम रामायणमुदाहरत् । चतुर्विंशतिरेतस्य सहस्रा ग्रन्थमानतः॥७०॥ तीर्थ प्रभाव्य वादीन्द्रान् शिष्यान्निष्पाद्य चामलान् । गुरुशिष्यो गुरुप्रेमनिबन्धेनेयतुर्दिवम् ॥ ७१ ॥ बुद्धानन्दस्तदा मृत्वा विपक्षव्यंतरोजनि । जिनशासनविद्वेषि प्रान्तकालमतेरसौ ॥ ७२॥ तेन प्राग्वैरतस्तस्य ग्रन्थद्वयमधिष्ठितम् ।
विद्यते पुस्तकस्थं तत् वाचितुं स न यच्छति ॥७३॥ श्रीमल्लवादी प्रभवृत्तमेतन्मञ्चेतनावल्लिनवाम्बुदाभम् । व्याख्यांतु शृण्वन्तु कविप्रधानाः प्रसन्नदृष्टया च विलोकयन्तु ७४ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा.
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । १P मुनिः. २ P षटी. ३ J H विलोकिता. ४ JH प्रमाणा. ५ प्रवाल्यं त्वां. ६JH सहस्र. ७ P वितरो J H व्यंतदोरो.