________________
प्रभावकचरिते श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीमल्लवाद्यद्भुतं - श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो नवाग्रोऽवत् ॥७५॥ इति मल्लवादिप्रबन्धः ॥ ग्रन्थ ७७ उभयम् ॥ २१२० ॥
श्रीबप्पभटिप्रबन्धः । बप्पभट्टिः श्रिये श्रीमान् यद्वृत्तगगनाङ्गणे। खेलति स्म गतायोतः राजा सूरः कविर्बुधः॥१॥ पीत्वा यद्गोरसं तृप्ता अप्यन्तः कवितर्णकाः। बिभ्राणाः शूगितां विज्ञगोपालैरपि दुर्दमाः॥२॥ तस्यैव चरितं किञ्चिकीर्तयिष्ये यथाश्रुतम् । मत्प्रज्ञामुकुरीति साधुशंगारभूषणम् ॥३॥ अस्ति स्वस्तिनिधिः श्रीमान् देशो गुर्जरसंज्ञया । अनुसेकविवेकाढ्यलोकः शोकाचलस्तंरुः ॥४॥ यदेकांशप्रविच्छंदस्वरभ्रमुकुरस्थितम् । गौरीशमुनिबाहुल्यात्तत्पुरं पाटलाभिधम् ॥ ५॥ जितशत्रुर्महीनाथः पाथ पतिगभीरिमा । तत्रास्ति नाशिताशेषबाह्यान्तररिपुव्रजः ॥६॥ चित्रशास्त्ररहस्यालिकन्दकन्दलनाम्बुदः। अश्लिष्टपरमब्रह्मामन्दपीयूषसागरः ॥७॥ मोढाख्याप्रौढगच्छश्रीविवोढामूढमूढतः। श्रीसिद्धसेन इत्यासीन्मुनीन्द्रस्तत्र विश्रुतः ॥ ८॥ युग्मम् । विश्वविद्यावदातश्रीर्मान्यः क्षितिभृतामपि । मौटेरे श्रीमहावीरं प्रणतुं सोऽन्यदाययौ ॥९॥ प्रणम्य विधिवत्तीर्थ पृथगाश्रयसंश्रितः। निशायां योगनिद्राभृद्ददर्शस्वप्नमीदृशम् ॥१०॥ उन्मीलल्लीलया नेत्रे यःकेसरिकिशोरकः। आरूढश्चैत्यगृङ्गाग्रमुत्फालं सत्वशालितः ॥ ११ ॥ इति दृष्ट्वा जजागारानगारपतिरद्भुतम् । प्रीतश्च श्रावयामास प्रातर्मुनिमतल्लिकाः ॥१२॥ कल्याणानामुपादानं हेतुत्वं विनयस्य तैः।
ख्यापयद्भिर्नतैः पृष्ट आख्यादर्थ च तत्पुरः ॥ १३ ॥ १J H add नमः सर्वज्ञाय. २ P श्रये J_H. श्रियमान्. ३ JH खलतिस्म गतावैराजा. P भूरः. ४ P . लस्वरः. ५ P मान्यः. ६JH शालिनः. ७ P जजगारपतिरद्भुतं.