________________
श्रीबप्पभट्टिप्रबन्धः ।
शिष्ट्ये (योs) न्यवादिकुभीन्द्र कुम्भनिर्भेदनोद्यमः । भाग्यैः संघस्य कोऽप्यद्य समेष्यति महामतिः ॥ १४ ॥ भाविप्रभाव संसूचि स्वप्नानन्दाभिनन्दितैः । तैः समं सूरिरागच्छज्जैनालयमनालयः ॥ १५ ॥ त्रिः प्रदक्षणयित्वा च यावन्नाथं विवन्दिषुः । तावत्षवार्षिको बाल एकस्तत्पुर आगमत् ॥ १६ ॥ कस्कः कौतस्कुतस्त्वं भो असौ पृष्टस्तदावदत् । पञ्चालदेश्यवप्याख्यपुत्रोऽहं भट्टिदेहभूः ॥ १७ ॥ सुरपालाख्यया शत्रून्निघ्नन् पित्रा निवारितः । अजानतेति वात्सल्यादहेतुर्विक्रमे वयः ॥ १८ ॥ एकोवामप्यनापृच्छ्यानुशयातिशयात्ततः । आगमं प्रभुपादान्ते प्रान्ते स्वस्नेहतः स्थितः ॥ १९ ॥ अस्यामानुष्यकं तेजो ध्यात्वेति गुरुभिस्ततः । किं त्वं नोंतेव तिष्ठासुरित्यजल्प्यत हर्षतः ॥ २० ॥ मद्भाग्यैः फलितं पूज्या इत्युक्त्वा सोप्यवस्थितः । अलिः किंनाम नोतिष्ठेद्विकाशिनि सरोरुहे ॥ २१ ॥ एकशः श्रुतमात्रेण विधारयति निश्चलम् । अनुष्टुभां सहस्रं तु प्रज्ञायां तस्य का कथा ॥ २२ ॥ जडदुस्तर्कसंक्लिष्टा देवी वागधिदैवतम् । दुर्बोधशास्त्रकृद्भेदि सुहृत्त्वं यस्यै वाञ्छति ॥ २३ ॥ प्रेक्षाभियोगसंतुष्टाः प्रभवस्तस्य पैतृके । गर्यो दुवातिधीग्रामे पितरौ प्रार्थयंत ते ॥ २४ ॥ स प्राह याचयामोऽहमेतदं बैकपुत्रकः । आशाधारोयमावाभ्यां कथं मोक्तुं हि शक्यते ॥ २५ ॥ निर्बन्धो यदि पूज्यानां तदा नावभिधां यदि । विश्रुतां बप्पभट्टीति कुरुध्वे तत्सुतोस्तु वः ॥ २६ ॥ ओमित्युक्ते जगत्पूज्यैः श्रद्धालुनिवहस्तयोः । आजन्मकसिपुः प्रादान्महदास्थाननिः फला ॥ २७ ॥ शताष्टके च वर्षाणां गते विक्रमकालतः । सप्ताधिके राधशुक्ल तृतीयादिवसे गुरौ ॥ २८ ॥ मोढेरे ते विहृत्यामुंदीक्षित्वा नाम चादधुः ।
१२९
१ P शिष्योत्यवादि निर्भद. २P निश्चला. ३ P शास्त्रदुद्धे "चाछति । ४P डुवा ०.५ P भिधाः विश्रुता ६ P तत्सुते ० ७P सिपुन्प्रादा० ८ P विहत्या.