________________
१३०
प्रभावकचरिते स्वाख्यात्रिकैकादशकाद्भद्रकीर्तिरिति(?) श्रुतम् ॥ २९ ॥ तत्पित्रोः प्रतिपन्नेन पूर्वाख्या तु प्रसिद्धिंभूः। शिष्यमौलिमणेरस्य कलासंकेतवेश्मनः ॥ ३०॥ संघश्च तहुणग्रामरामणीयकरंजितः। विदधेऽभ्यर्थनां तेषामत्रावस्थानहेतवे ॥ ३१॥ योग्यतातिशयं चास्य ज्ञात्वा सहरवस्ततः। सारस्वतं महामन्त्रं तत्रस्थास्तस्य ते ददुः॥३२॥ परावर्त्तयतस्तस्य निशीथे तं सरस्वती। स्वर्गङ्गास्रोतसि नात्यनावृतासीद्रहोभुवि ॥३३॥ तन्मन्त्रजापमाहात्म्यात्तद्रूपा सा समाययौ । ईषदृष्ट्वा च तां वकं परावर्त्तयति स्म सः॥३४॥ स्वं रूपं विस्मरन्ती च प्राह वत्स कथं मुखम् । विवर्त्तसे भवन्मंत्रजापात्तुष्टाहमागता ॥ ३५॥ वरं वृण्विति तत्प्रोक्तो बप्पभट्टिरुवाच च । मातर्विसदृशं रूपं कथं वीक्षे तवेदशम् ॥ ३६॥ स्वां तनुं पश्य निर्वस्त्रामित्युक्ते स्वं ददर्श सा। अहो निबिडमेतस्य ब्रह्मव्रतमिति स्फुटम् ॥ ३७॥ उच्चैश्च मंत्रमाहात्म्यं येनाहं गतचेतना। ध्यायन्ती दृढतोषेण त्वत्पुरः समुपस्थिता ॥ ३८ ॥ वरेपि निस्पृहे त्वत्र दृढं चित्रातिरेकतः। गत्यागत्योर्ममा(?) स्वेच्छा त्वदीया निर्वृतो भव ॥ ३९ ॥ अन्यदा तत्र संस्थानां भद्रकीर्तिर्बहिर्गतः। वृष्टौ देवकुलं श्रुत्वा तस्थौ स स्थैर्यसुस्थितः॥४०॥ तत्रस्थस्य पुमानेको नाकिपाकविडंबकः । समगस्त प्रशस्तश्रीवृष्टिव्याकुलितस्तदा ॥४१॥ श्यामाश्मोकीर्णवर्णोथासहारहँदिवांगना(?) स्वस्तिप्रशस्तिरत्रास्ति विहस्तितजडस्थितिः॥४२॥ काव्यानि वाचयामास महार्थानि सुधीरसौ। सख्याद्वयाख्यापयामास प्रत्याद्वप्पभट्टितः॥४३॥ तदाख्यारंजितस्वान्तः शान्ते वर्षेतिहर्षतः । ययौ सहैव वसतौ वसतौ तत्र च स्थितः॥४४॥
१P स्वाख्यनिकैकैकादशकाद्रुद०. २J H प्रसिद्धम्. ३ JH तद् ! ४ P परावा० ५P हेत्यन्न दृढं चिनाति० ६JH दृष्टौ. ७ P कार्ण वण्णौथा 'दूदिवांगना. ८ P प्रत्यग्र०