________________
श्रीबप्पभट्टिप्रबन्धः । ततो गुरुभिराशीर्भिरानंद्य समपृच्छयत । आमुष्यायणतां स्वस्याचख्यो व्रीडावशाननः ॥ ४५ ॥ वर्यमौर्यमहागोत्रसंभूतस्य महाद्युतेः। श्रीचन्द्रगुप्तभूपालवंशमुक्तामणिश्रियः ॥ ४६॥ कान्यकुब्जयशोवर्मभूपतेः सुयशोंगभूः। पित्रा शिक्षावशात् किंचिदुक्तः कोपादिहागमम् ॥४७॥ अलेखीदामनामस्वं क्षितौ खटिकया ततः। स्वनामाग्रहणेनास्य विवेकात्ते चमत्कृताः॥४८॥ व्यमृशन् सूरयस्तत्र नखछोटनपूर्वकम् ।। पूर्व श्रीरामसैन्येऽसौ दृष्टः पाण्मासिकः किल ॥४९॥ पीलवृक्षमहाजाल्यों वस्त्रांदोलकसंस्थितः । अचलच्छाययास्माभिर्विज्ञातः पुण्यपूरुषः ॥५०॥ ततस्तजननी वन्यफलवर्ग विचिन्वती। अस्माभिर्गदिता वत्से का त्वं किंवा भवत्कुलम् ॥५१॥ कथमीदगवस्था च सर्वमाख्याहि नः पुरः। विश्वस्ता यद्वयं त्यक्तसंगा मुक्तपरिग्रहाः ॥५२॥ सावादीत्तातपादानां किमकथ्यं ततः प्रभोः। श्रीकन्यकुब्जभूपालयशोवर्मकुटुंबिनी ॥ ५३॥ अहं सुतेत्र गर्भस्थे सपत्न्या मत्सरोदयात् । पुरा लभ्यवरं प्रार्थ्य नृपानिर्वासितास्म्यहम् ॥ ५४॥ ततोऽनुशयतो हित्वा पितृश्वशुरमन्दिरे। स्थाने व आगमं वन्यवृत्या वर्ते प्रभोधुना ॥ ५५ ॥ श्रुत्वेति सांत्वितास्माभिश्चैत्यशुश्रूषया स्थिरा। . तिष्ट बालं प्रवर्द्धख जनकस्येव वेश्मनि ॥५६॥ तत्सपत्नी च केनापि कालेन व्यनशत्स्वयम् । सा च राज्ञा चरैः शोधयित्वा पश्चादर्नायिता ॥ ५७॥ प्राच्यासंख्यगुणेनाथ मानेन बहुमानिता। वयं चात्र ततो देशाद्भूमावस्यां विजहिम ॥ ५८॥ इति श्रुतः स्ववृत्तान्तस्तद्देश्यपुरुषव्रजात् । अनेन सांप्रतं भाव्यं तत्पुत्रेणैव धीमता ॥ ५९॥ यदाकृतिः शरीरस्य लक्षणानीदृशानि च । नर्ते नृपसुतं पूज्या इति ध्यात्वाभ्यधुस्ततः ॥६०॥
१P ममूननपूर्वकम्. २ P जाल्यावस्त्रा०. ३ P कुला. ४ P दनीयत. ५ श्व' 'देश. जात्.