________________
१३२
प्रभावकचरिते
तत्राव वत्स निश्चिन्तो निजेन सुहृदा समम् ।
शीघ्रं गृहाण शास्त्राणि संगृहाणामलाः कलाः ॥ ६१ ॥ ताश्चेमाः-पठितं १ लिखितं २ स(म्यग्भ)णितं ३गीत ४ नर्त्तने ५ ।
वाद्यं ६व्याकरणं ७ छन्दो८ ज्योतिष ९शिक्षया १० सह॥२॥ निरुक्तं च ११ तथा कात्यायनं १२ च सनिघंटकम् १३-। पत्रच्छेद्यं १४ नखच्छेद्यं १५ सह रत्नपरीक्षया १६- ॥ ६३ ॥ आयुधाभ्यासयोगश्च १७ गजारोहणमेव च १८। तुरगारोहणं १९ शिक्षा २० तयोः २१ प्रत्येकमद्धता ॥ ६४॥ मन्त्रवादो २२ रसवादः २३ खन्यवादस्तथैव च २४-। रसायनं च २५ विज्ञानवादो २६ मतिविबोधकः॥६५॥ तर्कवाद २७श्च सिद्धान्तो २९ विषनिग्रह २८ गारुडे ३०। शाकुने वैद्यकं ३१ चैवाचार्यविद्या ३२ तथागमः ३३॥६६॥ प्रासादलक्षणं चैव ३५ सामुद्रिक ३६मथ स्मृतिः ३७-। पुराण ३८ मितिहासश्च ३९ तथा वेदविधिर्वरः ४०- ॥ ६७ ॥ विद्यानुवाद ४१ दर्शनसंस्कारो ४२ खेचरी कला ४३ । अमरीकरणं चें.४४ द्रजालं४५पातालसिद्धिभृत् ४६ ॥६८॥ धूर्तानां शंबलं ४७ गंधयुक्ति ४८ वृक्षश्चिकित्सया ४९ । कृत्रिममणिकर्माणि ५० सर्ववस्तुकृतिस्तथा ५१ ॥ ६९ ॥ वंशकर्म ५२ पुष्पकर्म ५३ विन्न(चित्र?)कर्म ५४ कलाद्भुतं । काष्ठ ५५पाषाणयोः कर्म५६ लेपकर्म ५७तथापि च ५८ ॥७॥ चर्मकर्म ५९ यंत्रकर्म ६० तथा रसवतीविधिः ६१ । काव्यादरलंकार६३हसित ६४ संस्कृतप्राकृतौ तथा ६५॥७॥ पैशाचिक ६६ मपभ्रंशः ६७ कपटं ६८ देशभाषया ६९ । धातुकर्म ७० प्रयोगाणामुपायाः७१ केवलीविधिः ७२॥७२॥ एवंविधकलानां च द्वासप्ततिमधीतवान् । अनन्यसदृशः कोविदानां पर्षदि सोभवत् ॥ ७३ ॥ तथा चाभ्यस्यतस्तस्य प्रशादर्पणबिंबितः। ययौ लक्षणतर्कादिशास्त्रव्रातं स्ववश्यताम् ॥ ७४ ॥ सब्रह्मचारितासख्याद्राजपुत्रः प्रपन्नवान् । बप्पभट्टे प्रदास्यामि प्राप्तं राज्यं तव ध्रुवम् ॥ ७५॥ कालेन केनचित्तस्याभकिना जनकेन च । प्रधानाः प्रेषिताः पट्टाभिषेककृतिहेतवः ॥ ७६ ॥
१P सस्यम्भणितं. २ J_H. omit ५२ पुष्प..... कर्मा. ३ JH चति. ४P ताः.