________________
१३३
श्रीबप्पभट्टिप्रबन्धः। कृच्छ्रादापृच्छय तं प्राप्तपुरं राज्येभिषिच्यताम् । पित्रा स स्वर्गतेरस्य कृतवानौर्ध्वदेहिकम् ॥ ७७॥ लक्षद्वितयमश्वानां चतुर्दशशतानि च । रथानां हस्तिनां पत्तिकोटीराद्यमशाधयत् ॥ ७८॥ स्वकीयसुहृदः प्रैषीदाबानाय नरानथ । आमनामा नृपः श्रीमानतिमानवविक्रमः ॥ ७९ ॥ तेषां चात्यादात्संघानुमत्या गुरवस्ततः। प्राहिण्वन् बप्पभार्टि तं गीतार्थैः परिवारितम् ॥ ८०॥ तीर्थप्रभावनोन्नत्यै शनैः संयमयात्रया। जगामाध्यामभिपुरमामहीशितुः (?) ॥ ८१ ॥ तदागमलसद्वर्णाकर्णनादर्णवो यथा। . द्विजराजसमुद्योतादुद्वेलः स तदाभवत् ॥ ८२ ॥ भूपः समग्रसामय्या संमुखीनस्ततोगमत् । कुंजरारोहणे विद्वान् कुंजरस्यार्थनां व्यधात् ॥ ८३॥ बप्पभट्टिरुवाचाथ भूपं शमवतां पतिः। सर्वसंगमुचा नोत्र प्रतिज्ञा हीयतेतमाम् ॥ ८४॥ राजोचे वः पुरा पूर्व यन्मया प्रतिशुश्रुवे । राज्यमाप्तं प्रदास्यामि तल्लक्ष्मवरवारणः॥ ८५॥ काममेवामुमाधत्त चेद्यूयं तन्मम प्रभोः। उक्तवेशोऽतिदानेनासुखं कर्तुं न साम्प्रतम् ॥ ८६॥ इत्यारोप्य बलात्पदृकुअरे धरणीधरः। जितक्रोधाद्यभिज्ञानधृतच्छत्रचतुष्टयम् ॥ ८७॥ विश्वस्य दर्शयंतं सञ्चामरैर्वीजितुं प्रभुम् । प्रावेशयत् शमिश्रेणीश्वरमत्युत्सवात्पुरम् ॥ ८८ ॥ युग्मम् । राज्यचिह्नमिदं धुर्यमिति सिंहासनासनम् । धौतांतरमनुच्चाहं (?) भूपं मुनिरथावदत् ॥ ८९ ॥ जाते सूरिपदेस्माकं कल्यं सिंहासनासनम् । इति तस्य वचः श्रुत्वाखिन्नोन्यासन्य (?) वीविशत् ॥ ९०॥ दिनानि कतिचित्तत्रावस्थाप्य गुरुसन्निधौ। प्राजीहयत्प्रधानाद्यैः समं मुनिपतिं नृपः॥९१॥ मोटेरकस्थितिं श्रीमत्सिद्धसेनमुनीश्वरम् । प्रणम्य प्रह्ववाणीभिरथव्यज्ञपयन्नमी ॥९२॥
१P •त प्राप्तपुरं रन्यैभिषिच्यत. २ P हितय. ३ P .ध्यामधामथिपुरमाममहीशितुः ॥ ४ P द्योत् दु. ५P लक्षावरवारणः। ६P सद्वामरैवी०. ७ P खिनौन्य सन्य०. ८P प्रगेम्य.
12