________________
प्रभावकचरिते चकोरवदचन्द्रेभ्रे मराल इव पल्वले । वने मृगवदेकाकी स्तोकाम्भसि च मीनवत् ॥ ९३ ॥ मयूर इव धर्मात्तॊ वर्षासु जलधिर्यथा । संग्रामे कातरो यद्वद्विद्वान् वैधेयमण्डले ॥९४॥ चन्द्रवत्कृष्णपक्षान्ते क्षीयते विरहातुरः। स्वामिनः प्रत्यहं पूज्या अनेन सुहृदा विना ॥९५॥
त्रिभिर्विशेषकम् आचार्यत्वे प्रतिष्ठाप्य निष्ठाधिष्ठानदैवतम् । अमुं प्रेषयतास्माभिः सह नः स्वामिनो मुदे ॥९६ ॥ अस्योपदेशतो जैनमन्दिरप्रतिमादिभिः । निर्मितैः सुकृतै राजा भवाब्धि लंघयेद्यथा ॥ ९७ ॥ श्रुत्वेति तत्पुरोवोचद्वाचंयमपतिस्तदा। चारित्राचारधौरेयः सुधामधुरया गिरा ॥९८॥ रत्नदीपो यथागारे बाह्यान्तरतमोपहः।। तेजस्वी निश्चलस्थेमा तथा बालर्षिरेष नः ॥ ९९॥ भानुनाम्भोरुहं यद्वत् शशिनेव विभावरी । शिखंडीव पयोदेन मन्त्री मुद्रां विना यथा ॥ १००॥ स्तम्भेनेवोज्झितं गेहं देहं च प्राणधारिणा। म्लायत्येव मनोवृत्तिस्तथास्माकममुं विना ॥ १०१॥ युग्मम् । इत्याकर्ण्य प्रभोर्वाचं प्राहुः कृतधियोथ ते। सन्तः परोपकारार्थे नात्माति गणयन्ति यत् ॥ १०२॥ तरवस्तरणेस्तापं सचाभ्रोल्लंघनक्लमम् । पाथोधिनॊश्रमं सोढा वोढा कूर्मः क्षितेधुरः॥ १०३ ॥ वारिदो वर्षपक्लेशं क्षितिर्विश्वभरक्लमम् । उपकारादृतेमीषां न फलं किंचिदीक्ष्यते ॥ १०४॥ युग्मम् । ततः प्रसादप्रावीण्यात् प्रेषयध्वं कृतीश्वरम् । एवं कृत्वा प्रभुत्वेस्मान्स्वामिबाधागिरेः पतिम् ॥ १०५॥ तेषां निर्बन्धसंबन्धादित्यभ्युपगते गुरुः। श्रीमंतं संघमाहूय तत्प्रतिष्ठार्थमादिशत् ॥ १०६॥ अथोत्सवेच्छुभिःस्वस्थैः श्रावकैर्गच्छ वत्सलैः। सद्यः समग्रसामग्र्यां विहितायां जिनालये ॥ १०७ ॥ लग्नेऽथ सौम्यषडर्गाधिष्ठिते परमाक्षरा। . JHन्तेः. २JH निश्चलास्तेमा. ३ P तरवमूरणेस्तापसवानो०. ४ P पानोधि. J H पथोधि० ५J H .पेक्षेत्रां. ६ P प्रावीथोत्प्रे० ७ Pस्मत् "पविं.