________________
१३५
श्रीबप्पभट्टिप्रबन्धः। सप्तग्रहबलोपेते श्रुतोक्तविधिपूर्वकम् ॥ १०८ ॥ शिष्यस्य विश्वशिष्यस्य कर्णे चंदनचर्चिते । गर्जत्सु तूर्यसंघातेष्वहत्तत्वं न्यवीविशत् ॥ १०९ ॥ .
त्रिभिर्विशेषकम् । बप्पभट्टिस्ततः श्रीमानाचार्यः कोविदार्यमा । दुर्वादिसिंहशरभोऽभवद्विश्वस्य विश्रुतः ॥ ११० ॥ अथानुशिष्टो विधिवहुरुभिर्ब्रह्मरक्षणे । तारुण्यं राजपूजा च वत्सानर्थद्वयं ह्यदः॥१११॥ . आत्मरक्षा तथा कार्या यथा न च्छल्यते भवान् । वामकामपिशाचेन यत्यं तत्र पुनःपुनः॥११२॥ भक्तं भक्तस्य लोकस्य विकृतीश्चाखिला अपि । . आजन्मनैव भोक्ष्येहममुं नियममग्रहीत् ॥ ११३॥ . तंगतूर्यध्वनिः श्रद्धां गतां सङ्गीतमङ्गलः । गौरवाभ्यर्थिनः संघेनार्थप्रायादुपाश्रये ॥ ११४॥ एकादशाधिके तत्र जाते वर्षशताष्टके । विक्रमात्सोऽभवत्सूरिः कृष्णचैत्राष्टमीदिने ॥ ११५॥ श्रीमदाममहाभूपश्रेष्ठामात्योपरोधतः। अनिच्छतोपि संघस्य प्रेषीत्तैः सह तं गुरुः॥ ११६॥ प्रयाणैः प्रवणैः प्राप कन्यकुब्जपुरन्ततः। प्रोसुके बहिरुद्देशेऽवतस्थे सवनाश्रिते ॥ ११७॥ उद्यानपालविज्ञप्ते परिज्ञाय समागतम् । मुनीशमवनीशोभूद्वद्धरोमांचकंचुकः ॥ ११८॥ ततः प्रत्यापणं हदृशोभाशोभितरथ्यकम् । प्रतिगेहं प्रतिद्वारं बद्धवन्दनमालिकम् ॥ ११९ ॥ उद्यद्धपघटीधूमस्तोमैः कृष्णाभ्रविभ्रमम् । कुर्वाणमहितोल्लोचैरेकच्छायं महीतलम् ॥ १२० ॥ काश्मीरजद्रवैः सिक्तधरं काश्मीरभूमिवत् । नगरं नगभिद्रंगतुल्यं भूपतिरातनोत् ॥१२१॥ त्रिभिर्विशेषकम्। {रूढप्रौढसौहार्दवसुधाधीशसंस्तुतः। पुरं पौरपुरंध्रीभिराकुलाहालकं ततः॥१२२॥ प्रविवेश विशामीश इव सच्छत्रचामरः।
अभ्रंलिहद्विपारूढो विवोढोपशमश्रियः ॥ १२३ ॥ युग्मम् । १P omits लोकस्य. २ P भोक्ते. मग्रहात्. ३ P तग० श्राद्वांगना. ४ P नाग्वप्राया० ५ P प्राशु J. प्रासुक्षे. ६ P गमाहितोल्लोवैरेकथ्ययमहीतल. ७ JH प्ररौढ. ८JH omit विवोब्ये.