SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ .१३६ प्रभावकार सौधे राजा ततः सिंहासने गष्टिकयास्तृते । उपावेशयदानंदात् सुहृदं मुनिनायकम् ॥ १२४ ॥ प्रांशुप्रभाव नोद्भूतरंगः संघः प्रभोरथ । परिचर्या परां चक्रे वक्रेतरमनाः सदा ॥ १२५ ॥ शश्वद्राजसभावाप्तावपिनिर्धूतकल्मषः । बप्पभट्टिप्रभुः श्रीमान् भूपाये सुकृतं जगौ ॥ १२६ ॥ कल्याणपादपारामजलवाहजलप्लवः । धर्म एव निराधाराधारं परपदप्रदः ॥ १२७ ॥ तस्यादौ प्रथितं दानं तच्च क्षेत्रेषु सप्तसु । तेषु च प्रथमं विद्धि सिद्धिकृजिनमंदिरम् ॥ १२८ ॥ अपरं बिंबनिर्माणमथ सिद्धान्तलेखनम् । चतुर्वर्णस्य संघस्याभ्यचैतानि किल क्रमात् ॥ १२९ ॥ तदन्तरा च सर्वेषामाधारोजैनमन्दिरम् । जिनाः श्रुतधरा यत्र स्थिताः संघप्रबोधकाः ॥ १३० ॥ श्रीमतां सति सामर्थ्ये विधेयं विधिवच्च तत् । बहवो यत्प्रभावेन भव्याः सद्गतिमाप्नुयुः ॥ १३१ ॥ इति तद्वाक्यमाकर्ण्य प्रकर्णानां शिरोमणिः । अवोचदामभूपालः प्रालेयांशुस्फुरद्यशाः ॥ १३२ ॥ पृथ्वीदेशः पुरं हर्म्य तिथिर्मासऋतुः समाः । धन्यान्येतानि भाष्यन्ते यानि त्वद्देशनांशुभिः ॥ १३३ ॥ इत्युक्त्वादात्तदादेशं भूमिलक्षणवेदिनाम् । कोशकर्म नराध्यक्षपुंसां च श्रीजिनौकसे ॥ १३४ ॥ युग्मम् । विश्वकर्मविदस्तत्र विश्वकर्मसुकर्मठाः । प्रारेभिरे महाभूत्या प्रासादं सुकृतोत्सवैः ॥ १३५ ॥ दिनैः कतिपयैः सैकशतहस्तोन्नतस्थितिः । प्रासादः परिनिष्पेदे सर्वलोकमुदा समम् ॥ १३६॥ पूर्णवर्णसुवर्णाष्टादशभारप्रमाणभूः । श्रीमतो वर्द्धमानस्य प्रभोरप्रतिमानभूः ॥ १३७ ॥ निरमाप्यत संप्राप्यागण्य पुण्य भरैर्जनैः । धार्मिकाणां संचरन्ती प्रतिमा प्रतिमानसम् ॥ १३८ ॥ युग्मम् । श्री भट्टिरेतस्या निर्ममे निर्ममेश्वरः । प्रतिष्ठां सुप्रतिष्ठासुः परमं पद्मात्मनः ॥ १३९॥ १ P धर्म्मपवनिराध्वाराधारं (?) २ P तेषु व प्रथमंविहि सिद्धि क्षु० ३ JH गा. ४ P पुमांवश्री जिनौकसो.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy