________________
श्रीबप्पभट्टिप्रबन्धः।
१३७ तथा गोपगिरौ लेप्यमयबिम्बयुतं नृपः । श्रीवीरमन्दिरं तत्र त्रयोविंशतिहस्तकम् ॥ १४० ॥ सपादलक्षसौवर्णटङ्कनिष्पन्नमण्डपम् । व्यधापयन्निजं राज्यमिव सन्मत्तवारणम् ॥ १४१ ॥ युग्मम् । एवमभ्यर्हितो राज्ञा गच्छन् सच्छत्रचामरः । राजकुञ्जरमारूढो मुख्यसिंहासनासनः ॥ १४२॥ मिथ्यात्वध्यामलाभोगान् लोकान्मत्सरपूरितान् । बप्पभट्टिप्रभुश्चके वक्रेतरनरस्तुतः ॥१४३॥ युग्मम् । राजाप्रद्विजजातीनां संसर्गादनुवत्तंकः। अन्यदान्यमहीपालासनमाधत्त सूरये ॥१४४॥ ततस्तदाशयं ज्ञात्वा विगताकारवैकृतः। जगाद प्रतिबोधाय तस्यागाधैकसत्वभृत् ॥ १४५॥ कृतप्राकृतसत्वानां मदादीनां जनद्विषाम् ।
दम्भस्तम्भादियुक्तानां कथं लक्ष्या भवादृशाः ॥१४६॥ ततः यदुक्तंमर्दय मानमतंगजदर्प विनयशरीरविनाशनसर्पम् । क्षीणो दादशवदनोऽपि यस्य न तुल्योभुवने कोऽपि॥१४७॥ इत्याकर्ण्य गिरं धीरां बुद्धा सूरि व्यजिशपत्। प्रभो त्वद्वाक्यमन्त्रैर्मेऽवलेपगरलं द्रुतम् ॥१४८॥ प्रभवः प्रभवः क्षेत्रे मम धान्यं हि सौहृदम् । स्वादतामत्र संपन्नभक्तपाकादिसंस्कृतम् ॥ १४९॥ अन्तःपुरेऽन्यदा म्लानवक्रभां वल्लभां तदा।
राजा दृष्टाह गाथार्ध स्वेच्छयेति प्रभोः पुरः ॥१५०॥ तद्यथाअद्यवि सा परितप्पइ कमलमुहि अत्तणोपमाएण । सारसारस्वतोद्गारांसद्धयाथ गुरुगिरा॥१५१॥ गाथोत्तरार्धमाचख्यौ सख्यौ स्नेहं वहमृतम् । सुतविउद्वेणतरा जीसे पच्छाइयं अंगम् ॥१५२॥ हृ दिवचसा तुष्टः प्रशंसन् कविकर्म तत् । तस्थौ किञ्चिदिव भ्रान्तः पुनरभ्रान्तलोचनः ॥ १५३॥ नृपो निरुपमप्रेमनिधिः शमभृता सह । अन्यदा ददृशे देवीं संचरतीं पदे पदे ॥ १५४ ॥ व्यथ्यमानामिव क्वापि मुखभंगविकारिणीम् । कृपापरिष्कृतस्वांत इव गाथार्धमब्रवीत् ॥ १५५ ॥
१JHस्य गाथैक.