________________
१३८
- प्रभावकचरिते
ताथाबाला चंकमती पए कीस कुणइं मुहभंगम्। ततः सत्यवचोवीचिवंधुरं प्रावदत्प्रभुः॥१५६ ॥ असूनृतं न जल्पेत कल्पांतेपि हि सिद्धवाक। नूनं रमणपरासे मेहलयाबिवइनहपंति ॥ १५७ ॥ श्रुत्वेति भूपतिः किंचित्सभ्रान्तो विकृतं मुखम् । चक्रे हिमोर्मिसंक्लिष्टसरोरुहमिवाद्युति ॥ १५८ ॥ इत्यालोक्य समुत्थाय प्रतिश्रयगतो मुनीन् । विहारहेतुं संवाह्य स्नेहमोहापराजितः ॥ १५९ ॥ काव्यमेतद्विलिख्याथ बहिारकपाटयोः। श्रीसंघमप्यनापृच्छय निरगानगराद्वहिः ॥ १६० ॥ युग्मं । तद्यथायामः स्वस्ति तवास्तु रोहणगिरमत्तः स्थितिः प्रच्युता
वर्तिष्यन्त इमे कथं कथमिति स्वप्नेपि मैवं कृथाः। श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा
ते शृंगारपरायणाः क्षितिभुजो मौलौ करिष्यंति नः॥१६॥ दिनैः कतिपयैर्गोंडदेशान्तर्विहरन्गुरुः । श्रीलक्षणावतीपुर्याः प्रापारामावनीतलम् ॥ १६२॥ तत्र वाक्पतिराजोस्ति श्रीधर्मश्मापपर्षदि । विदुषां मौलिमाणिक्यं प्रबंधकविरुत्तरः॥१६३ ॥ प्रभोरागमनं ज्ञात्वा जलदस्येव चंद्रिका । तदागमनगीर्भिः स भूपालं पर्यतोषयत् ॥१६४ ॥ वशे वाग्देवता यस्य कविर्मे प्राच्यसंस्तुतः। स इहागात्प्रभोः पुण्यैर्बप्पभट्टिमुनीश्वरः ॥ १६५॥ ध्रुवं यत्र समभ्येति कृतपुण्यः सवासरः। ज्योत्स्नाप्रिय इवैणांकोदयादेष विशांपतिः॥ १६६ ॥ अजल्पदुद्रुषद्रोमा विद्वन्मंडलमंडनम् । विश्वकोविदकोटीरमेष जैनमुनीश्वरः॥ ध्रुवं यत्र समभ्येति कृतपुण्यः स वासरः॥ १६७॥ युग्मम् । परं मेऽस्त्यामराजेन दुर्घहो विग्रहाग्रहः। तदाह्वानाद्यदा पश्चाद्याति तन्मे तिरस्कृतिः॥ १६८ ॥ प्रष्टव्यस्तन्मुनिस्वामी सवेदागत्य मां नृपः। १ P बालाचंक्रमतीपएपएकीसकुणइमुहु० २ P. रमणएसेमे० ३ P विदुषो. ४ P. प्रद्योना.