________________
श्री भट्टप्रबन्धः ।
१३९
साक्षादापृच्छ्य ते प्रस्थातव्यं तन्नान्यथा त्वया ॥ १६९ ॥ सुधीभिः कथितेऽर्धेऽस्मिन् सूरिणांगीकृते सति । तज्ज्ञात्वा धर्मभूपालः परमानंदमाप्तवान् ॥ १७० ॥ आमराजप्रवेशाच्च सहस्रगुणितं ततः । प्रवेशोत्सवमाधत्त पुर्यामाचार्यभूपतेः ॥ १७१ ॥ धर्मभूपे तदा साक्षादिव धर्मे पुरः स्थिते । चक्रवर्ती सुधीवृंदे प्रोचे वृत्तमिदं तदा ॥ १७२ ॥ रुचिरचरणारक्ताः सक्ताः सदैव हि सद्गतौ
परमकवयः काम्याः सौम्या वयं धवलच्छदः । गुणपरिचयेोद्धर्षाः सम्यग्गुणातिशयस्पृशः
क्षितिप भवतोऽभ्यर्ण तूर्ण सुमानससंमिताः ॥ १७३ ॥ तत्रापि काव्यवक्तृत्वलीलानंदितपर्षदः । अवतस्थे सुखं सूरिर्दोगुंदग ? इवामरः ॥ १७४ ॥ ततश्चामनृपः प्रातरनायाते प्रभौ तदा । नगरांतर्बहिर्ग्रामाकरादिष्वगवेषयत् ॥ १७५ ॥ अप्राप्तौ बालमित्रस्य पारवश्यं गतः शुचः । वैलक्ष्यमक्षतं भेजे च्यवनोन्मुखनाकिवत् ॥ १७६ ॥ अन्येद्युर्बहिरारामे गच्छन्नेकं ददर्श सः । बभ्रु बभ्रुभुजंगेन हतं चित्रीतिस्ततः ॥ १७७॥ अस्य मौलौ मणि तत्रालुलोके सम्यगीक्षया । संस्तभ्य तुंडमाधत्त फणीन्द्रमपभीर्नृपः ॥ १७८ ॥ तमाच्छाद्याथ संवृत्या संगृह्य निलये नृपः । आगत्य श्लोकशकलं जजल्प विदुषां पुरः ॥ १७९ ॥ शस्त्रं शास्त्रं कृषिर्विद्या अन्यो यो येन जीवति । तैः पूरिता समस्येयमभिप्रायैर्निजैर्निजैः ॥ १८० ॥ बिभेद हृदयं नैव तेषामेकोऽपि भूपतिः । सस्मार भारतीपुत्रं बप्पभट्टि तदार्हतम् ॥ १८९ ॥ मालतीकुसुमामोदमसौ रोलंबबालवत् । खद्योता इव चन्द्रस्य वालेया इव दंतिनः ॥ मम मित्रस्य विद्वांसः कलां नार्हति षोडशीम् ॥ १८२ ॥ टंकलक्षं ददे हेम्नस्तस्य यः किल पूरयेत् । समस्यां मदभिप्रायात्प्रादात्पटहमीदृशम् ॥ १८३ ॥ अथो दुरोदराजीव एकः सर्वस्वनाशतः । श्रुत्वेति स धनोपायममुं श्लोकार्थमाददे ॥ १८४ ॥
१ P वैलक्षमचत । मतोव्यवन्मो० ? २ P दृढम् .