________________
११०
-
प्रभावकचरिते बलिमिह पदयोः क्रियावहे सद्गुरुहरिभद्रमुनीश्वरस्य तस्य । अतिदुरितमनागतं विचार्य व्रजनविधिं प्रतिषेधति स्म यः प्राक् ॥ अविनयफलमावयोस्तदुग्रं समुदितमत्र विनिश्चितं तथैतत् । न चलति नियमे न दैवदृष्टं निजजनने सकलङ्कता मृतिर्वा ॥ ७५॥ नरकफलमिदं न कुर्वहे श्रीजिनपतिमूर्द्धनि पादयोर्निवेशः। परिशटिततरौ वरं विभिन्नौ निजचरणौ नतु जैनदेहलग्नौ ॥ ७६ ॥ निधनमुपगतं यथा तथा वा तदिह च साहसमेव संप्रधार्यम् । इति दृढतर आवयोर्निबन्धः प्रतिकृतमत्र कृते विधेयमेव ॥ ७७ ॥ तदनु च खटिनीकृतोपवीतौ जिनपतिबिम्बहृदि प्रकाशसत्वौ। शिरसि च चरणौ निधाय यातौ प्रयततमैरुपलक्षितौच बौद्धैः॥७८॥ प्रतिघवशकडारकेकरा:रतिकुशलैरवलोकितौ च तैस्तौ । गुरुरवददहो पुनः परीक्षामपरतरां सुगतद्विषोर्विधास्ये ॥ ७९ ॥ स्थिरतरमनसस्तदाध्वमद्य प्रतिविधये हि न चादरो विधेयः। सुरशिरसि च पादपातमुख्यं न हि समधीनिधयोपि सन्निध्युः ८० अथ च कृतमिहोपवीतमेतत् प्रतिकृतमत्र कृते दृढत्वचिह्नम् । दृढमतिरपरोपि कश्चिदीदृग्नहि विदधाति यथाविकर्मभीतः ॥ ८१॥ परनगरसमागताश्च विद्यार्थिन इह नैव मया कदर्थनीयाः। भवति च कुयशोभरस्तत्र प्रतिकरणं कुपरीक्षितं न कार्यम् ॥८२॥ इति वचनममुष्य ते निशम्य स्थितिमभजन गुरुणा जना निरुद्धाः। शयनभुवि गृहोपरि स्थितानां प्रतिदिशि यामिक एक एव चक्रे८३ जिनगुरुशरणं विधाय रात्राविह शयितौ परमेष्ठिनः स्मरन्तौ । समगंतच(मच्च)तयोरनिच्छतोरप्यसुखभरेऽसुलभा तदाप्रमीला८४ प्रतनुतमघटावली तदोर्द्धावनितलतः सविमोचयांबभूव । खडखडखडिति स्वरेण शय्यां विजहुरमी विरसं तदा रटन्तः॥८५॥ निजनिजकुलदेवताभिधास्तेऽभिदधुरिहाद्भुतसम्भ्रमेण तौ च । जगृहतुरथ जैननाम तेषां नरयुगलं मतमित्यभूच शब्दः॥ ८६ ॥ अथ निधनभयेन साहसिक्याद्वरतरमापयिकं तु लब्धवन्तौ। अनवरतमहातपत्रवृन्दात्तत उवध्यत तद्युगं स्वदेहे ॥ ८७ ॥ तनुरुहयुगपत्ततः पृथिव्यां मुमुचतुरंगमथोर्द्धभूमितस्तौ । मृदुशयनतलादिवोत्थितौ चाप्रहततनू कुशलादुदग्रबुद्ध्या ॥ ८८ ॥
१JH बल मिहपटयोः. २ J_H प्रकाशकृतौ. ३ JH ख्यतदि समधीसिद्ध०. ४ JH तु परीक्षतः न कार्य. ५P परमेष्ठिनस्मरन्तौ. ६JH समगमवतयोरनिथतोरथ्य.