________________
१०९
हरिभद्रसूरिप्रबन्धः। अवददथ गुरुर्विनेययुग्मं हितकथने हि न औचिती भविष्यत् । भवति खलु ततो यथेहितं वा विदधतमुत्तममद्य निंदितं वा ॥५९ ॥ अथ सुगतपुरं प्रतस्थतुस्तावगणितगुरुगौरवोपदेशौ। अतिशयपरिगुप्तजैनलिङ्गौ न चलति खलु भवितव्यतानियोगः॥६०॥ कतिपयदिवसैरवापतुस्तां सुगतमतप्रतिबद्धराजधानीम् । परिकलितकलावधूतवेषावतिपठनार्थितया मठं तमाप्तौ ॥ ६१ ॥ पठनविधिकृते विहारमालाविपुलतरास्ति च तत्र दानशाला । सुगतमुनियतिश्च तत्र शिष्याननवरतं किल पाठयेद्यथेच्छम् ॥६२॥ अतिसुखकृतभुक्तितः पठन्तौ सुविषमसौगतशास्त्रजातमत्र । परबुधजनदुर्गमार्थतत्त्वं कुशलतया सुखतोऽधिजग्मतुस्तौ ॥ ६३॥ जिनपतिमतसंस्थिताभिसंधि प्रतिविहितानि च यानि दूषणानि । निहतमतितया यतेर्निरीक्षातिशयवशेन निजागमप्रमाणैः ॥ ६४ ॥ दृढमिह परिहत्य तान् हि हेतून विशदतरान् जिनतर्ककौशलेन । सुगतगतनिषेधदाळयुक्तान् समलिखतामपरेषु पत्रकेषु॥६५॥युग्मम् इति रहसि च यावदाददाते गुरुवमानविलोडितं हि तावत् । अपगतममुतः परैश्च लब्धं गुरुपुरतः समनायि पत्रयुग्मम् ॥६६॥ अवलोकयतोऽस्य हेतुदाय प्रतिनिजतर्कमुद्ग्रदूषणेषु । जिनपतिगतदूषणेषु पक्षेष्वजयमभून्मनसि भ्रमो महीयान् ॥६७ ॥ अभणदथ सविस्मयातिरेकात्पिपठिषुरर्हदुपासकोऽस्ति कश्चित् । अपर इह मदीयदूषितं कः पुनरपि भूषयितुं समर्थबुद्धिः ॥ ६८ ॥ स्फुरति च क उपाय ईदृशस्याधिगमविधाविति चिन्तयन् स तस्थौ । क्वचिदमलधियामपि स्खलन्ति प्रतिपद ईदृशि कुत्रचिद्विधेये॥६९॥ उदमिषदथ बुद्धिरस्य मिथ्याग्रहमकराकरपूर्णचन्द्ररोचिः। अवददथ निजान् जिनेशबिम्बं बलजपुरो निर्धध्वमध्वनीह ॥७॥ तदनु शिरसि तस्य भो निधाय क्रमणयुगं हि समागमो विधेयः । इदमपिन करिष्यति प्रमाणं मम पुरतोऽध्ययनं समाविधत्ताम् ७१ गुरुवचनमिदं तथैव बौद्धैः कृतमखिलैरपशंखलैः खलैस्तैः। अथ मनसि महार्तिसंगतौ तौ विममृशतुः प्रकटं हि संकटं नः॥७२॥ न विर्दधे च यदिह क्रमौसशूको प्रतिकृतिमूर्धनि लक्षितौ तदानीम् नहि पुनरपि जीविते किलाशा विकरुणमानसपाठकादमुष्मात् ७३
१JH अथ. २ P संध्यं. ३JH ददाने गुरुवचसा न०. ४P यि पुत्रः ५JH पतिमवभूषणेषु पक्षेथ. ६J H निददध्वनाह. ७JH खरैस्तैः. ८ P धिचयदिह.
10