________________
१०८
प्रभावकचरिते
अयमवगतसाधुधर्मसारः सकलमहाव्रतधूधुरंधरश्रीः। गुरुमगदथ प्रवर्तमानागमगणसारविचारपारदृश्वा ॥४३॥ अधिकरणिकशास्त्रसुप्रसन्नानुगतिविलोल इयहिनानि जज्ञे। त्वदपरिचयमूर्छितो मुनीशःप्रचिकटिषुर्निजमासुतीवलत्वम् ॥४४॥ धृतधृतिरधुना शुभानुभावात् श्रुतभरसागरमध्यलीनचित्तः। अनधिगतविमुक्तपद्मवासाप्रियविरहप्रभृतिव्यथस्त्वभूवम् ॥ ४५ ।। गुरुरिदमवधार्य धर्मशास्त्राध्ययनसुपाठनकर्मलब्धरेखम् । सुरचितसुकृतोपदेशलीलं निजपदमंडनमादधौ सुलग्ने ॥ ४६॥ अनुचरितपुराणपादलिप्तप्रमुखसमो हरिभद्रसूरिरेषः। कलिसमययुगप्रधानरूपो विमलयति क्षितिमंहिसंक्रमेण ॥ ४७ ॥ अपरदिवि निजौ सजामिपुत्रौ पितृकुलकर्कशवाक्यतो विरक्तौ । प्रहरणशतयोधिनी कुमारौ बहिरचनावुदपश्यदात्तचिंतौ ॥४८॥ अथ चरणयुगं गुरोः प्रणम्य प्रबभणतुहतो विरागमेतौ । तदनु गुरुरुवाच वासना चेन्मम स विधिवतभारमुद्वहेथाम् ॥४९॥ तदनु मतिमवाप्य चैष हंसं स परमहंसमदीक्षयत्ततोऽथ । व्यरचयत स तौ प्रमाणशास्त्रोपनिषदि कुश्रुतपाठशुद्धबुद्धी॥५०॥ अथ च सुगततर्कशास्त्रतत्वाधिगममहेच्छतया गुरुक्रमेभ्यः । अवनितलमिलल्ललाटपट्टौ सुललितविज्ञपनां वितेनतुस्तौ ॥५१॥ दुरधिगमतथागतागमानामधिगमनाय सदाहितोद्यमौ तौ ।। प्रदिशत नगरं यथा तदीयं प्रतिनिजबुद्धिपरीक्षणाय यावः ॥५२॥ गुरुरपि हृदये निमित्तशास्त्रादधिगतमुत्तरकालमाकलय्य । अवददिति शुभं न तत्र वीक्ष्येभ्युपगममेनमतो हि माद्रियेथाः ॥५३॥ ननु पठतमिहैव देशमध्ये गुणियतिनायकसन्निधौ तु वत्सौ । मतिरतिशयभासुरापि केषांचिदपि परागेमवेदिनी समस्ति ॥५४॥ गुरुमिह विरहय्य कः कुलीनः पथि निरपायतमेऽपि बंभ्रमीति । कथमवगतदुर्निमित्तभावे तदिह ननोऽनुमतिर्दुरंतैकार्ये ॥ ५५ ॥ अवदथ विहस्य हंसनामा गुरुजनयुक्तमिदं तु वत्सलत्वम् । भवदनुचरणात् प्रभाववंतौ किमु शिशुको परिपालितौ न पूज्यैः ५६ अपशकुनगणः करोतु किंवाऽध्वनि परपुर्यपि चेतनायुतानाम् । अविरतमभिरक्षति क्षतान्नौ चिरजपितो भवदीयनाममन्त्रः ॥ ५७॥ दुरधिगमदविष्ठदेश्यशास्त्राधिगमकृते गमनादथागमाच्च । क इव नु विगुणः कृतज्ञतायाः क्षतिकरणस्तदिदं विधेयमेव ॥ ५८॥
१P omits मलयति''प्रहरणशतयेधिनौ. २ P परागमावदि. ३ JH दुरितं P कार्य. ४J H वरपूर्यपि ''नं.