________________
श्रीमल्लवादि प्रबन्धः ।
१०७
अथ दिवसमुखे तदेकचित्तोऽगमदिह वेश्मनि तीर्थनायकस्य । हृदयवसतिवीतरागबिम्बं बहिरपि वीक्ष्य मुदा स्तुतिं प्रतेने ॥ २८॥ तथाहि-वपुरेव तवचष्टे भगवन् वीतरागताम् ।
न हि कोटरसंस्थिताग्नौ तरुर्भवति शाद्वलः ॥ २९ ॥ दिवसगणमनर्थकं स पूर्व स्वमभिमान कदयमानमूर्तिः । अमनुत सततश्च मण्डपस्थं जिनभटसूरिमुनीश्वरं ददर्श ॥ ३० ॥ हरिमिव विबुधेशवृन्दवंद्यं शमनिधिसाधुविधीयमानसेवम् । तमिह गुरुमुदीक्ष्य तोषपोषात्समजनि जनितकुवासनावसानः ३१ हृतहृदय इव क्षणं स तस्थौ तदनु गुरुर्व्यमृशत्स एव विप्रः । य इह नु विदितः स्वशास्त्रमंत्र प्रकटमतिर्नृपपूजितो यशस्वी ॥ ३२॥ मदकलगजरुद्धराजवर्त्मभ्रमवशतो जिनमन्दिरान्तरस्थम् । जिनपतिमपि वीक्ष्य सोपहासं वचनमुवाच मदावगीतचित्तः ॥३३॥ युग्मम् 1
इह पुनरधुना ययावकस्माज्जिनपतिबिम्बमथादरात्स वीक्ष्य । अतिशयितरचित्तैरंगसंगी स्तवनमुवाच पुराणमन्यथैव ॥ ३४ ॥ भवतु ननु विलोक्यमेतदग्रे तदनु जगाद मुनीश्वरो द्विजेशम् । निरुपमधिषणानिधे शुभं ते कथय किमागमने निमित्तमत्र ॥ ३५ ॥ न्यगददथ पुरोहितो विनीतं किमनुपमप्रतिभोऽहमस्मि पूज्याः । जिनमतजरतीवचो मयैकं श्रुतमपि नो विवरीतुमत्र शक्यम् ॥ ३६ ॥ अपरसमयवित्तशास्त्रराशिं व्यमृशमहं तु न चक्रिकेशवानाम् । क्रमममुमुदितं तया प्रबुध्ये तदिह निवेदयत प्रसद्य मेऽर्थम् ॥ ३७ ॥ अथ गुरुरपि जल्पति स्म साधो जिनसमयस्य विचारणव्यवस्थाम् । शृणु सुकृतमते प्रगृह्य दीक्षां तदनुगता च विधीयते तपस्या ॥ ३८ ॥ विहितविनयकर्मणा च लभ्यो मिलदचलातलमौलिनानुयोगः । इति तदवगमोऽन्यथा तु न स्यात्यदुचितमाचर मा त्वरां विधास्त्वम् अथ स किल समस्तसंगहानिं सकलपरिग्रहसाक्षिकं विधाय । गुरुपुंरत उपाददे चरित्रं परिहृतमन्दिरवेष इष्टलोचः ॥ ४० ॥ गुरुरवददथागमप्रवीणा यमियर्तिनीजनमौलिशेखरश्रीः । मम गुरुभगिनी महत्तरेयं जयति च विश्रुतजाकिनीति नाम्नी ॥ ४१॥ अभणदथ पुरोहितोऽनयाहं भवंभवशास्त्रविशारदोपि मूर्खः । अतिसुकृतवशेन धर्ममात्रा निजकुलदेवतयेव बोधितोऽस्मि ॥ ४२ ॥
१ P omits चष्टे शाद्वलः २ JH. अमनुनमंतश्च. ३ JH अतिशयितचित्त रंगसंगास्तमव्य. ४J H. णावलभ्यो मिलदिलात. ५JP हानि. ६ JH यमियनाजन JH नवनवशास