SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०६ प्रभावकचरिते प्रकटतरमतिः स्थिरप्रतिज्ञो ध्वनिरहितावसरेऽवधारयन्सः । व्यमृशदथ नचाधिगच्छति स्म श्रुतविषमार्थकदर्थितः स गाथाम् ॥ २०॥ सा चेयम्-चक्किदुगं हरिपणगं पणगं चक्की ण केसवो चक्की । केसवचक्की केसवदु चक्कीकेसीयचक्कीय ॥२१॥ अवददिति यदम्ब चाकचिंक्यं बहुतरमत्र विधापितं भवत्या। इह समुचितमुत्तरं ददौ सा शृणु ननु पुत्रक गोमयार्द्रलिप्तम् ॥२२॥ इति विहितसदुत्तरेण सम्यक् स च वदति स्म चमत्कृतिं दधानः । निजपठितविचारणं विधेहि __ त्वमिह सवित्रि न वेद्यहं त्वदर्थम् ॥ २३ ॥ अवददथ च सा यथा गुरोर्नोऽ नुमतिरधीतिविधौ जिनागमानाम् । न विवृतिकरणे विचारमिच्छु यदि हि तदा प्रभुसंनिधौ प्रयाहि ॥ २४ ॥ वचनमिति निशम्य सोऽपि ध्यौ परिहृतदर्पभरः पुरोहितेशः। अपि गुरुपुरुषैर्दुरापमध्ये परिकलना न समस्ति वाङमयेऽस्मिन् ॥ २५ ॥ जिनमतगृहिगेहचन्द्रशाला ___ यदियमुपैति ततो हि जैनसाध्वी । जिनपतिमुनयो गुरुत्वमस्या विदधति तन्मम तेऽपि वन्दनीयाः॥ २६ ॥ सकलरिहतिर्ममागतेयं दुरतिगमा वचनस्य यत् प्रतिष्ठा । व्यमृशदथ स गेहमागतः स्वं तदनु विनिद्रितया निशां च निन्ये ॥ २७ ॥ १JH. यत्सः. २JH. केसवदुच्चक्क केसीयच्चकाय. ३ J H. निज.. ४ JH सकलपरिहति ममागनेयं दुरतिगमा च तस्य यत्प्रतिष्टा.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy