________________
श्रीशान्तिसूरिप्रबन्धः ।
२२१ सद्यश्च तैर्यदाख्यातं परप्राज्ञैः सुदुःश्रवम् । सर्वानुवादसंवादमवादीद्विशदं ततः ॥ ८२॥ श्रीशांतिसूरिभिस्तोषपोषतः परिषवजे। प्रोचे च संनिवेश्यांके रत्नरेणुवृतं भवान् ॥ ८३॥ वत्स प्रमाणशास्त्राणि पठाशठमतिर्मम । पार्श्व नश्वरदहस्य लाभमत्र गृहाण भोः॥८४॥ पुनर्व्यजिज्ञपत्सूरिर्मुनिचंद्रप्रभो कथम् । अध्येयं स्थानकाभावे दुष्प्रापं स्थानमत्र यत् ॥ ८५॥ ततस्ते टंकशालायाः पश्चाद्भागे समर्पयन् । आश्रयार्थ गृहं चारु श्राद्धपार्खाद्विभूषणम् ॥ ८६॥ षट्दर्शनप्रमाणानां शास्त्राण्यक्लेशतोऽथ सः। अध्यैष्ट ज्ञापकशात्रोर्योगो दुर्लभ ईदृशः॥ ८७॥ ततः सुविहितानां हि साधूनामाश्रयाः पुरे। बभूवुरत्र संवृत्या सर्वसंघचरित्रिणाम् ॥ ८८॥ उत्तराध्ययनग्रंथटीका श्रीशांतिसूरिभिः। विदधे वादिनागेंद्रसन्नागदमनी हि सा ॥ ८९ ॥ शिष्येण मुनिचंद्रस्य सूरेः श्रीदेवसूरिणा। तन्मध्यत उपन्यस्य स्त्रीनिर्वाणबलादिह ॥९०॥ पुरः श्रीसिद्धराजस्य जितो वादे दिगंबरः। तदीयवचसां मिश्रा विद्वदुःसाधसाधिका ॥ ९१॥ अथान्येधुर्जिते धर्मे धनपालेन मालवे । एक एव महीपीठे कविस्त्वमिति मानिते ॥ ९२॥ प्रोक्ते च धनपालेन बुधोऽणहिल्लपत्तने । अस्ति श्वेतांबराचार्यः शांतिसूरिः परो न हि ॥ ९३॥ दिनैः कियद्भिरभ्यागात्तं द्रष्टुं धर्मकोविदः । स्वगश्रीगर्वसर्वखहरं श्रीपत्तनं पुरम् ॥ ९४॥ धारापद्रमहाचैत्यप्रत्यासन्नमठं ततः। श्रुत्वागादपराह्नेऽसौ बुधदर्शनकौतुकः ॥९५ ।। तदानीं स प्रभुर्दैहे कंडूपीडित औषधम् । संमृद्य पिहितद्वाराररेस्तदुचितांशुकः?॥९६॥ संवीक्ष्य कुंचिकाछिद्राज्ज्ञापितं यतिभिर्गुरुम् । पृच्छयैव विजेष्येऽमुं धर्मो ध्यात्वेति तं जगौ ॥९७ ॥
१H. तद्वक्तव्यं. २ H. दूषणां D. श्वेद्विदूषणं. ३ H. omits it. ४. P. समा D सनागदमनीसमा. ५ P. स्त.