________________
२२२
प्रभावकचरिते
कस्त्वमत्रोत्तरं सूरिः प्रादादेव इति स्फुटम् । देवः क इति तत्प्रश्न त्वहमित्युत्तरं ददौ ॥ ९८॥ अहं क इति पृच्छायां श्वेति वाचमवोचत । श्वा क एतादृशि प्रश्ने त्वमित्युत्तरमातनोत् ॥९९ ॥ पुनस्त्वं क इति प्रश्ने वितीर्ण प्राग्वदुत्तरम् । तयोश्चक्रकमेतद्धिजशेऽनंतमनंतवत् ॥ १०० ॥ ततश्चमत्कृतः सोऽभूद्वार उद्घाटिते सति। सतत्वोपप्लवग्रंथाभ्यासोपन्यासमातनोत् ॥ १०१॥ वितंडाविरते चात्र श्रीशांत्याचार्य उजगौ। कृतः सर्वानुवादोऽत्र प्रतिज्ञस्तं विवादिनम् ॥ १०२॥ ममार्पय निजं वेषं योगपट्टादिकं तथा। अंगचेष्टाः समस्तास्ते विधीयते यथा तथा ॥ १०३॥ तथा कृते च सर्वत्र धर्मों वाद्यतिविस्मितः। पादावस्य प्रणम्याह नाहमीशे भवजये ॥ १०४॥ बुधस्त्वमेव च श्रीमान् धनपालोदितं वचः। प्रतीतमेव मच्चित्ते ताकिमनृतं वदेत् ॥ १०५॥ इत्युक्त्वा प्रययौ स्थानं निजं सनिरहंकृतिः। अहंकारश्रियां नामाभिचा रपरमौषधिः ॥१०६ ॥ अथ द्रविडदेशीयोऽन्यदा वादी समागमत् । अव्यक्तं भैरवाशब्दान् हाकारं किमपि ब्रुवन् ॥ १०७॥ प्रभवस्तस्य भाषायामभिज्ञा अपि कौतुकात् । भित्तिस्थे घोटके हस्तं दत्वाभिदधिरे स्फुटम् ॥ १०८ ॥ वद त्वमन्यदेशीयवादिना सह संगतम् । अव्यक्तवादी पशुवद्योगोयं तिर्यगाकृतेः॥१०९॥ वदतीत्थं प्रभौ सांकामिकसारस्वतोत्तरे। तुरंगमप्रतिकृतिस्तरलं सोऽवदघृशम् ॥ ११०॥ विकल्पैर्गहनैः कष्टादप्यशक्यानुवादिभिः। तथा निरुत्तरः पश्वाकारं स्वं तेन लंभितः ॥ १११ ॥ गते निर्विद्यतेऽस्मिंश्च कांदिशीके जनोऽवदत् । अस्मिस्तपति नास्त्यन्यो वादी वाग्देवतावरात् ॥ ११२ विहारं कुर्वतां तेषां धारापद्रपुरेऽन्यदा। देवी श्रीनागिनीव्याख्याक्षणो नित्यं समृच्छति ॥११३ ॥ तत्पट्टेवासनिक्षेपमासनायाथ ते व्यधुः। देव्या सह गुरोस्तस्य समयोऽयं प्रवर्त्तते ॥ ११४ ॥
१ वि• D P कृतस०. २ । नां. ३ D तक्षणे नृत्यं.