________________
श्रीशान्तिसूरिप्रबन्धः ।
२२३. अन्यदालसनिक्षेपं वैचित्र्यात्ते विसस्मरुः । आसने प्रेषणे चात ऊर्ध्वस्था सा चिरं स्थिता ॥ ११५॥ ध्यानस्थानां निशामध्ये सद्यो देवीस्वरूपिणी । मध्येमठमुपालंभप्रदानायाययौ तदा ॥ ११६ ॥ उद्योतं सूरयो दृष्ट्वा स्त्रियं चातिरतिस्थिताम् । प्रवर्तकं मुनि प्रोचुर्नारी प्राप्तात्र किं मुने ॥ ११७ ॥ वेद्मीदं नेति तेनोक्तोऽवदद्देवी स्वयं तथा। वासालाभान्ममाद्यांह्री सव्यथावूर्वसंस्थितेः॥११८॥ श्रुतज्ञानमयांगानां भूयाच्चेद्वोऽपि विस्मृतिः। आयुः षण्मासशेषं तदभिज्ञानादतः प्रभोः ॥ ११९ ॥ स्वगच्छसंस्थितिं कृत्वा प्रेत्य पथ्यं व्यधत्त तत् । ज्ञाते ममोचितं ह्येतत्कालं विज्ञापितं प्रभोः॥१२०॥ इत्युक्त्वांतर्हितायां च देव्यां प्रातर्निजं गणम् । संघं च मंत्रयित्वा द्वात्रिंशत्सत्पात्रमध्यतः॥ १२१ ॥ सुधीश्वरास्त्रयः सूरिपदे तेन निवेशिताः। श्रीवीरसूरिः श्रीशालिभद्रसूरिस्तथापरः ॥ १२२ ॥ श्रीसर्वदेवसूरिश्च मूर्त्ता रत्नत्रयीव सा। सदृत्तालंकृता दीप्यमाना सत्तेजसा बभौ ॥ १२३॥ नाभूत् श्रीवीरसूरीणां कथंचित्सूरिसंततिः। तेषां राजपुरिग्रामे श्रीनेमिशाश्वतं वपुः ॥ १२४ ॥ शाखाद्वये पुरे विद्वत्कोटीरपरिवारिते। सूरयोऽद्यापि वर्तते संघोद्धारधुरंधराः॥ १२५॥ श्रीशांतिसूरयः श्रीमदुजयंताचलं प्रति । यशोभिधानसुश्राद्धसुतसोढेन संगताः॥१२६॥ कृत्वा प्रयाणमल्पैश्च दिनैस्तं गिरिमभ्ययुः। श्रीनेमिं हृदये ध्यात्वा चक्रुः प्रायोपवेशनम् ॥ १२७॥ धर्मध्यानाग्निनिर्दग्धभवार्तिविततेऽथ सः। अज्ञातक्षुत्तृषानिद्राप्रभृत्यंतप्रतीतयः॥ १२८॥ समाधिना व्यतीत्याथ दिनानां पंचविंशतिम् । वैमानिकसुरावासमधिजग्मुर्जगन्नताः ॥ १२९ ॥ श्रीविक्रमसंवत्सरतो वर्षसहस्त्रे गते स षण्णवतौ । शुचिसितनवमीकुजकृत्तिकासु शांतिप्रभोरभूदस्तम् १३० इत्थं श्रीशांतिसूरेवरचरितमिदं वादिवेतालनानः पूर्वश्रीसिद्धसेनप्रभृतिसुचरितवातजातानुकारम् । 1 D. पुरी. २ H. नेमिः ३ D. सुश्राषसुतसाढेन. ४ H. विदते.