________________
२२४
प्रभावकचरिते
अद्य प्राचीनविद्वजनपरिणमतामाद्धानं श्रिये स्तानंद्याच्चाचंद्रकालं विबुधजनशतैः सम्यगभ्यस्यमानम्॥१३१॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ शृंगोऽगमत्षोडशः श्रीप्रद्युम्न मुनींना विशदिता श्रीशांतिसूरिप्रथा ॥ १३२ ॥ ग्रंथ १३६ अ० ९ उभयं ३६, २४६ अक्षर १७. इति श्रीवादिवेतालप्रबंध:
श्रीमहेन्द्रसूरिप्रबंधः
श्रीमन्महेद्रसूरिभ्यो नमस्कारं प्रशास्महे । सत्यंकारमिवागण्य पुण्यपण्यस्थिरीकृतौ ॥ १ ॥ श्रीमतो धनपालस्य सालस्यः को गुणस्तुतौ । यस्याविचलविश्वासे ब्राह्मी तथ्यवचःक्रमा ॥ २ ॥ श्लाघ्यः स धनपालः स्यात्काल आंतरविद्विषाम् । यहुद्धिरेव सिद्धाज्ञा मिथ्यात्वगरलच्छिदे ॥ ३ ॥ तद्वृत्ते वाचमाधास्ये दास्ये तिष्ठन् गुरुक्रमे । विधास्ये स्वस्य नैर्मल्यमादास्ये जन्मनः फलम् ॥ ४ ॥ अस्त्यवत्यभिधो देशो देशोनं ? वडवामुखम् । यस्य येन च संत्यत्र कुलानि नव भोगिनाम् ॥ ५ ॥ आधारः पुरुषार्थानां पुरी धारास्ति यत्पुरः दानकल्पद्रुबाहुल्यादसारा सामरावती ॥ ६ ॥ तत्र श्रीभोजराजोऽस्ति राजा निर्व्याजवैभवः । अवैरं यन्मुखांभोजं भारती श्रीनिवासयोः ॥ ७ ॥ यद्यशः स्वर्णदीतीरे प्रवृत्तव्योमविद्रवे । विधिः पूजाविधौ नालिकेरवद्विधुमादधे ॥ ८ ॥ इतश्च मध्यदेशीयसंकाश्यस्थानसंश्रयः । देवर्षिरस्ति देवर्षिप्रभावो भूमिनिर्जरः ॥ ९ ॥ तस्य श्रीसर्वदेवाख्यः सूनुरन्यूनविक्रमः । ब्राह्मण्यनिष्टया यस्य तुष्टाः शिष्टा विशिष्टया ॥ १० ॥ तस्य पुत्रद्वयं जज्ञे विज्ञेशैरचितक्रमम् । आद्यः श्रीधनपालाख्यो द्वितीयः शोभनः पुनः ॥ ११ ॥ तत्रान्यदाययौ चांद्रगच्छपुष्करभास्करः । श्री महेंद्रप्रभुः पारदृश्वा श्रुतपयोनिधेः ॥ १२ ॥
१ H. णमंता. २ H. ३६६४२. ३ D. नदंडवा ०.