________________
श्री महेन्द्रसूरिप्रबन्धः ।
जनानां संशयोच्छेदमादधद् व्याख्यया तया । विश्रुतः सर्वदेवेन द्विजराजेन स श्रुतः ॥ १३॥ स चास्योपाश्रये पायादुचितं मानितश्च तैः । दिनत्रयमहोरात्रं तथैवास्थात्समाधिना ॥ १४ ॥ पप्रच्छ प्रभुरप्येवं परीक्षाहेतवे हिं नः । सुधियो यूयमायाथ कार्य वाप्यस्ति किंचन ॥ १५ ॥ स्वयंभुवः परा मूर्तिः प्राहासौ द्विजसत्तमः । महात्मनां हि माहात्म्यवीक्षणे सुकृतार्जनम् ॥ १६ ॥ कार्य नः किंचिदप्यन्यदस्ति तत्रार्थिनो वयम् । रहस्यं वद नाख्येयमितरेषां गुणोदधे ॥ १७ ॥ स्थित्वैकांते प्रभुः प्राह ख्यातं यत्कथनोचितम् । इति श्रुत्वा जगादासौ पिता वः पुण्यवानभूत् ॥ १८ ॥ राजपूज्यस्ततो लक्षैर्दानं प्रापदसौ सदा ।
गृहे मम निधेः शंका तृष्णाविलसितं ह्यदः ॥ १९ ॥ तं सर्वज्ञातविज्ञाना यूयं यदि ममोपरि । अनुग्रहधियाख्यात परोपकरणोद्यताः ॥ २० ॥ ब्राह्मणः सकुटुंबस्तत्स्वजनैः सह खेलति । दानभोगैस्ततः श्रीमत्प्रसीद प्रेक्षयस्व तत् ॥ २१॥ युग्मम् सूरिर्विमृश्य तत्पार्श्वाल्लाभं शिष्योत्तमस्य सः ।
२२५
आह सम्यग्भवत्कार्य विधास्यामो धियां निधे ॥ २२ ॥ परं न किं भवान् दाता रहः कथ्यं हि नस्त्वया । सामि स्वामिन्समस्तस्य दास्यामि तव निश्चितम् ॥ २३ ॥ अहं स्वरुचि भावत्कवस्तुतोऽर्धं समाददे । साक्षिणोऽत्र विधीयतां द्रव्यव्यतिकरो ह्ययम् ॥ २४ ॥ व्याख्याता वेदवेदांगशास्त्रेषु वितथं कथम् ।
वदाम्यत्र तथाप्यस्तु विश्वासाय प्रभोरिदम् ॥ २५ ॥ साक्षीकृत्य ततस्तत्र स्थितान्मेने गुरुस्तदा । हृष्टेन गृहमागत्य पुत्रयोर्जगदे तथा ॥ २६ ॥ शुभेऽह्नि सूरिमाह्वास्तज्ञानाज्ज्ञात्वा स तद्भुवम् । निश्चित्योवाच तद्द्रव्यं ख्यानयित्वाप स द्विजः ॥ २७ ॥ चत्वारिंशत्सुवर्णस्य टंकलक्षा विनिर्ययुः ।
दृष्टेपि निःस्पृहोत्तंसः सूरिः स्वोपाश्रयं ययौ ॥ २८ ॥
१ हितः २ D. प्राहाख्याते • P प्राहाख्यात ० ३ H. स. ४ D. P..
तंतसू..