________________
प्रभावकचरिते
श्रीमतः सर्वदेवस्य महेंद्रस्य प्रभोस्तथा । दानग्रहणयोर्वादो वर्षे यावत्तदाभवत् ॥ २९ ॥ अन्यदा सत्यसंधत्वाद्ब्राह्मणः सूरिमाह च । देर्यद्रव्येऽत्र ते दत्ते स्वगृहं प्रविशाम्यहम् ॥ ३० ॥ सूरिः प्राहातिरुचितं ग्रहीष्ये वचनं मम । भवत्विदं ततो मित्रं गृहाण त्वं द्विजोऽवदत् ॥ ३१ ॥ सूरिराह सुतद्वंद्वाद्देह्येकं नन्दनं मम । सत्यप्रतिज्ञता चेत्ते न वा गच्छ गृहं निजम् ॥ ३२ ॥ इतिकर्तव्यतामूढो द्विजः कष्टेन सोऽवदत् । प्रदास्यामि ततो वेश्म निजं चिंतातुरो ययौ ॥ ३३ ॥ तत्रानास्तृतखद्वायां सुप्तोऽसौ निद्रया विना । दृष्टश्च धनपालेनागतेन नृपसौधतः ॥ ३४ ॥ विषादः किंनिमित्तोऽयं नंदने मयि तिष्ठति । यथादिष्टक तत्त्वमाख्याहि मम् कारणम् ॥ ३५ ॥ ततः प्राह पिता वत्स सत्पुत्रा हि भवादृशाः । पित्रादेशविधाने स्युरीदृग्गाढाभिसंधयः ॥ ३६॥ ऋणतः पितरं याति नरकादुद्धरत्यथ । सद्गतिं च प्रदत्ते यो वेदे प्रोक्तः सुतः स च ॥ ३७॥ श्रुतिस्मृतिपुराणानामभ्यासस्य कुलस्य वः । फलं तदेव युष्माकं घट्टणादस्मदुद्धृतिः ॥ ३८ ॥ ततः शृण्ववधानात्त्वं संति जैना महर्षयः । महेंद्रसूरयो यैस्ते द्रव्यमीदृक् प्रदर्शितम् ॥ ३९ ॥ यथाभिरुचितं चैषामर्धदेयं प्रतिश्रुतम् । ततः पुत्रद्वयादेकं याचंते करवै हि किम् ॥ ४० ॥ संकटादमुतो वत्स त्वयैव ह्यधुना वयम् । मोच्यामहे ततस्तेषां शिष्यो मत्कारणाद्भव ॥ ४१ ॥ कोपगर्भ तदाह श्रीधनपालो धियां निधिः । तातोक्तं भवता यादृग् नेदृक्कोऽप्युचितं वदेत् ॥ ४२ ॥ संकाश्यस्थान संकाशा वयं वर्णेषु वर्णिताः । चतुर्वेदविदः सांगपारायणभृतः सदा ॥ ४३ ॥ तथा श्रीमुंजराजस्य प्रतिपन्नसुतोऽभवत् । श्रीभोजबाल सौहार्द भूमिर्भूमिसुरो ह्यहम् ॥ ४४ ॥ तत्पूर्वजानिह स्वीयान् पुत्रो भूत्वा प्रपातये । श्वभ्रे पतितशूद्राणां वीक्षया ह्यवगीतया ॥ ४५ ॥
१ D P. दाना०. २ D. देव. ३D P. हाभि•
२२६