________________
श्रीमहेन्द्रसूरिप्रबन्धः ।
२२७ एकस्त्वमृणतो मोच्यः पात्याः सर्वेऽपि पूर्वजाः। इमं कुव्यवहारं नादास्ये सजननिंदितम् ॥ ४६॥ कार्येणानेन नो कार्य मम स्वरुचितं कुरु । तातमित्यवमत्यामुं स तस्मादन्यतो ययौ ॥ ४७ ॥ अश्रुपूरप्लुताक्षोऽसौ निराशो गुरुसंकटे।। यावदस्ति समायातस्तावदागात् सुतोऽपरः ॥४८॥ पृष्टस्तेनापि दैन्येऽत्र निमित्तं स तदावदत् । धनपालेन कुत्रापि कार्ये प्रतिहता वयम् ॥ ४९ ॥ भवान् बालस्ततः किंतु तत्र प्रतिविधास्यते । गच्छ स्वकर्मभोक्तारो भविष्यामः स्वलक्षणैः॥५०॥ निराशं वाक्यमाकर्ण्य तत्पितुः शोभनोऽवदत् । मा तात विह्वलो भूया मयि पुत्रे सति ध्रुवम् ॥ ५१॥ धनपालो राजपूज्यः कुटुंबभरणक्षमः। निश्चितस्तत्प्रसादेन भवतादिष्टमाचरे ॥ ५२॥ वेदस्मृतिश्रुतिस्तोमपारगः पंडितोऽग्रजः। कृत्याकृत्येषु निष्णातः स विवेक्तु यथारुचि ॥५३॥ अहं तु सरलो बाल्यादेतदेव विचारये । पित्रादेशविधेरन्यो न धर्मस्त जन्मनाम् ॥ ५४॥ अत्र कृत्यमकृत्यं वा नैवाहं गणयाम्यतः। कूपे क्षिप निषादानां मामर्पय यथारुचि ॥५५॥ श्रुत्वेति सर्वदेवश्च तं बाढं परिषखजे। मामृणान्मोचयित्वा त्वं समुद्धर महामते ॥५६॥ ततः प्रागुक्तकार्य तच्छ्रावितोऽसौ सुतोत्तमः। अतिहर्षात्ततः प्राह कार्यमेतत्प्रियं प्रियम् ॥ ५७॥ श्रीजैना मुनयः सत्यनिधयस्तपसोज्ज्वलाः। तत्संनिधाववस्थानं सद्भाग्यैरेव लभ्यते ॥५८॥ जीवानुकंपया धर्मः स च तत्रैव तिष्ठति। चिह्नं यत्सत्यधर्मस्य ज्ञानमीदृक्प्रतीतिदम् ॥ ५९॥ कः स्थास्यति गृहावासे विषये विकिला(रा)कुले। इदं कार्यमिदं कार्यमिति चिंतार्तिजर्जरे ॥६०॥ बिभेत्युभयथा बंधुवल्लभाया धनश्रियः। असंतुष्टधियस्तिष्ठत्स्वपि भाग्येषु वस्तुषु ॥६१॥ ममापीदग्गतिः कन्यासंबंधे भाविनि ध्रुवम् । तत्तात मत्प्रिये कार्ये शंकसे किं निषेधतः॥ ६२॥
3 D. P. सूनुजन्मना.