________________
प्रभावकरि
तदुत्तिष्ठ कुरु स्नानं देवार्चनमथ क्रियाम् । वैश्वदेवादिकां कृत्वा निर्वृतः कुरु भोजनम् ॥ ६३ ॥ ततो मां तत्र नीत्वा च तेषामंके विनिक्षिप । पवित्रय निजं जन्म यथा तत्पदसेवया ॥ ६४ ॥ इत्याकर्ण्य तदा विप्र आनंदाश्रुपरिप्लुतः । उत्तस्थौ गाढमाश्लिष्य मूर्ध्नि चुम्बितवान् सुतम् ॥ ६५ ॥ ततः सर्वाः क्रियाः कृत्वा भोजनानंतरं द्विजः । प्रायाच्छोभनदेवेन सहाचार्यप्रतिश्रये ॥ ६६॥ अंकमारोपयामास स तेषां वल्लभं सुतम् । यावान् भाति विभातव्यः पूज्यैस्तावानयं सुतः ॥ ६७ ॥ सूरयस्तमनुज्ञाप्यादीक्षयंस्तं सुतं मुदा । तद्दिनांतः शुभे लग्ने शुभग्रहनिरीक्षिते ॥ ६८ ॥ ते विजहुः प्रभाते चापभ्राजनविशंकिताः । अणहिल्लपुरं प्रापुर्विहरंतो भुवं शनैः ॥ ६९ ॥ इतश्च धनपालेन सर्वदेवः पृथकृतः । विकर्मकृन्निधिद्रव्यात्पुत्रं विक्रीतवानिति ॥ ७० ॥ अदृष्टव्यमुखास्ते च दीक्षापतितशुद्रकाः । कौतस्कुताः शमव्याजात् स्त्रीबालादिप्रलंबकाः ॥ ७१ ॥ निर्वास्यते ततो देशादेषां पाषंडमद्भुतम् । ध्यात्वा विज्ञाप्य राजानं तच्चक्रे तेन रोषतः ॥ ७२ ॥ युग्मम् एवं द्वादशवर्षाणि श्रीभोजस्याज्ञया तदा । न मालवे विज तच्छ्रीपीतांबरदर्शनम् ॥ ७३ ॥ स्थितानां गुर्जरे देशे धोरासंघो व्यजिज्ञपत् । श्रीमन्महेंद्रसूरीणां यथावृत्तं यथातथम् ॥ ७४ ॥ इतः शोभनदेवश्चाध्यापितः सूरिभिस्तदा । विदधे वाचनाचार्यः शक्रेणापि स्तुतो गुणैः ॥ ७५ ॥ अवंति संघविज्ञप्तिं श्रुत्वाख्याच्छोभनो विभुः । यास्याम्यहं निजभ्रातुः प्रतिबोधाय सत्वरम् ॥ ७६ ॥ दौर्मनस्यमिदं संघे मन्निमित्तं समाययौ । अहमेव प्रतीकारं तत्र संधातुमुत्सहे ॥ ७७ ॥ गीतार्थैर्मुनिभिः सार्द्ध प्रभुभिः प्रेष्यताथ सः । धारापुरमथायातः प्रयातः प्रौढिमद्भुतम् ॥ ७८ ॥ प्राप्ते काले च 'साधून्स 'प्रैषीगोचरचर्यया । श्रीमतो धनपालस्य गृहे परिचिते चिरम् ॥ ७९ ॥ १ H. विघातव्य.
२२८