________________
श्रीमहेन्द्रसूरिप्रबन्धः। तत्र तावागतौ साधू विद्वदीशस्तदा च सः। स्नानायोपविवेशाथ स्नेहासक्तवपुदृढम् ॥ ८०॥ व्याहृत्य धर्मलाभं तौ तस्थतुः स्वस्थचेतसौ । सरत्यस्तीति विदधे धनपालप्रियोत्तरम् ॥ ८१॥ प्राह श्रीधनपालश्च किंचिद्देह्यनयोर्बुवम् । गृहाद्यांत्यर्थिनो रिक्ता अधर्मोयं यतो महान् ॥ ८२ ॥ उषितान्नं तया नीतं गृहीतेत्र ततो दधि । द्वितीयमाहृतं पृष्टं तैरेतत् किमहर्भवम् ॥ ८३॥ किं दनि पूतराः सन्ति न वा यूयं दयाभृतः। एतथ्यहस्थितं लातो नोचेद्च्छ त शीघतः॥ ८४॥ तावचतुरियं रीतिरस्माकं किमसूयसि। असूयया महान् दोषः प्रियवाक्यं हि सुंदरम् ॥ ८५॥ अथ चेत्पृच्छसि भ्रांतिं विना जीवस्थितिं ध्रुवम् । गोरसेऽहयातीते नासत्यं ज्ञानिनां वचः॥ ८६ ॥ सुधीनाथस्ततोऽवादीत्तदानादीनवं वचः। दर्शयत्तं प्रतीत्यै नो दनि जीवानमूदृशि ॥ ८७॥ पूलिकालक्तकस्याथ ताभ्यां तत्र व्यमोच्यत । जीवादध्नस्तस्यां? द्रागेवारुरुहुस्तदा ॥ ८८॥ चलंतस्ते हि चक्षुष्या अचक्षुष्याः स्थिताः पुनः। तद्वर्णास्तद्रसा जीवास्तदा तेनेक्षिताः स्फुटाः ॥ ८९॥ मिथ्यात्वस्यावलेपोऽथ तद्वाक्येन विनिर्ययौ । तदा कृतीश्वरस्याहिनाथमंत्रैर्विषं यथा ॥ ९०॥ अचिंतयदसौ धर्म एषां जीवदयोज्वलः।।
य एष पशुहिंसादिरसौ मिथ्येव लक्ष्यते ॥ ९१॥ उक्तं च तेन-सावच्छ अछि धम्मो जामुणियजिणाणसासणं तुम्हें ।
कणगानुराणकणगं ससियपयं अलभमाणाणं ॥ ९२॥ विद्वन्नाथस्ततोऽवादीत्को गुरुः कुत आगमः। भवतां कुत्र वा स्थाने शुद्धे यूयमवस्थिताः॥९३॥ श्रुत्वेति वदतस्तौ च श्रूयतामवधानतः। गूर्जरादेशतः श्रीमन्नायाता वयमत्र भोः॥९४॥ श्रीमन्महेंद्रसूरीणां शिष्यः श्रीशोभनो गुरुः। नाभेयभुवनाभ्यर्णे स्थितोस्ति प्राशुकाश्रये ॥ ९५॥ १ म. सरस्य. २ P. नो H. दर्शयंत...वान् तादृशि. ३ P. तूलि.
20