________________
२३०
प्रभावकचरिते
इत्युक्त्वा जग्मतुस्तौ च निजं स्थानं महामुनी। सुस्नातो भक्तिपूर्व च सुधीः प्रायादुपाश्रये ॥ ९६ ॥ अथ श्रीशोभनो विज्ञोऽभ्यातस्थौ गुरुबांधवम् । आलिलिंगे च तेनासौ सोदरस्नेहमोहतः॥९७॥ तेन चा सने दत्तेऽग्रजेनोपाविशत्तदा। ऊचे च पूज्य एव त्वममुं यो धर्ममाश्रयः॥९८॥ जिनेंद्रदर्शनं धर्ममूलं भोजनृपाशया। यन्निस्य मयोपार्जि नांतस्तस्य महांहसः॥९९ ॥ सर्वदेवः पिता त्वं चानुज एतौ महामती । यावेनं सुगुरुं धर्ममाद्रियेथां भवच्छिदे ॥१०॥ वयमत्र पुनर्धर्माभासे धर्मतया श्रिते। स्थिता गतिं न जानीमः कामपि प्रेत्य संश्रयाम् ॥ १०१॥ तदाख्याहि मदानायो दधिरत्नानुज स्फुटम् । धर्म शर्मकरं मर्मममोच्छेदे विधायिनम् ॥ १०२॥ अथ श्रीशोभनो विद्वान् बंधोः स्नेहभरं वहन् । उवाच त्वं कुलाधार शृणु धर्म कृपैव यत् ॥१०३॥ देवधर्मगुरूणां च तत्वान्यवहितः शृणु। देवो जिनो महामोहस्मरमुख्यारिजित्वरः॥१०४॥ स्वयं मुक्तः परान्मोचयितुं सामर्थ्यभूभृशम् । प्रदाता परमानंदपदस्य भगवान् ध्रुवम् ॥ १०५॥ शापानुग्रहकर्तारो मग्ना विषयकर्दमे । स्त्रीशस्त्राक्षत्रगाधारा देवताः स्युर्नृपा इव ॥ १०६॥ गुरुः शमदमश्रद्धासंयमः श्रेयसां निधिः। कर्मनिर्जरणासक्तः सदाचरितसंवरः ॥१०७ ॥ परिग्रहमहारंभो जीवहिंसाकृतोद्यमः । सर्वाभिलाषसंपन्नो ब्रह्महीनः कथं गुरुः ॥ १०८ ॥ सत्त्याऽस्तेयदयाशौचक्षमाब्रह्मतपःक्रियाः। मृदुत्वार्जवसंतोषा धर्मोऽयं जिनभाषितः ॥ १०९ ॥ अवद्यवस्तुदानेन भवेञ्च पशुहिंसया। अधर्मो धर्मवत्ख्यातो नाहः कृत्रिमवस्त्रवत् ॥ ११० ॥ समुवाच ततः श्रीमान् धनपालः श्रियांनिधिः। प्रतिपन्नो मया जैनधर्मः सद्गतिहेतवे ॥१११ ॥ ततः श्रीमन्महावीरचैत्यं गत्वा ननाम च । वीतरागनमस्कारं श्लोकयुग्मेन सोऽब्रवीत् ॥ ११२॥
१ P D. भुक्ति. २ H. P संचरिसंवाः ।