________________
श्रीमहेन्द्रसूरिप्रबन्धः ।
२३१ तथाहि-बलं जगद्धिसनरक्षणक्रम क्षमा च किं संगमके कृतागसि ।
इतीव संचिंत्य विमुख्यमानसंरुषेवरोषस्तव नाथ निर्ययौ११३ कतिपयपुरखामीकायव्ययैरपि दुर्ग्रहो
मितवितरिता मोहनासौ पुरानुसृतो मया । त्रिभुवनविभुर्बुद्धया (व्या)राध्योधुना सुपदप्रदः
प्रभुरपि गतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ ११४ ॥. अन्यदा पूर्णिमासंध्यासमये नृपमब्रवीत् । जैनदर्शनसंचारहेतवे देशमध्यतः॥ ११५॥ राजंस्तव यशोज्योत्स्ना धवलांबरविस्तरः। प्रकटस्तमसोहंता भूयादर्थप्रकाशकः ॥ ११६ ॥ राजा वदन्मया ज्ञातोऽभिसंधिर्मत्रिते ततः। श्वेतांबराश्चरंत्वत्र देशे को दर्शनं द्विषन् ॥११७ ॥ ततो धारापुरीसंघसंगत्याज्ञापयत्प्रभोः। श्रीमन्महेंद्रसूरेस्तत्तत्रायान्मंक्षु सोऽप्यथ ॥ ११८॥ क्रमेण धनपालश्च धर्मतत्वविचक्षणः। दृढसंपत्कनिष्ठाभिर्ध्वस्तमिथ्यामतिर्बभौ ॥ ११९ ॥ राशा सह महाकालभवनेसोऽन्यदा ययौ। तन्मंडपगवाक्षेचोपाविशन्नशिवाग्रतः॥१२०॥ राज्ञाहूतः सच द्वाराग्रतः स्थित्वा झटित्यपि । व्यावृत्य त्रिस्ततो भूपः पप्रच्छैनं सविस्मयः ॥ १२१ ॥ सखे किमिदमित्यत्र पृष्टे स प्राह संगभृत् । देवोऽस्ति शक्तिसंबद्धो बीडया न विलोक्यते ॥ १२२ ॥ राजाह दिवसेष्वेतावत्सु किं तादृशोऽर्चितः । भवता प्राह सोहं च बालत्वाल्लजितो नहि ॥ १२३॥ दिनानीयंति लोकश्च भवंतोऽपीदृशा यतः। शुद्धांतांतर्वधूसक्ते त्वय्यपीक्षितुमक्षमः ॥ १२४॥ कामसेवापरैः प्राच्यैरपि भूपैर्भवादृशैः।
बलित्वादर्चनं त्वस्य प्रवर्तितमिहेदृशः ॥ १२५ ॥ यतः-अवरहदेवहं सिरुपुजिइ महएवह पुणुलिंगु ।
बलियाजं जि प्रतिष्टइं तंणमन्तदूचगु ॥ १२६॥ स्मित्वा ध्यौ च भूपालो हास्यं सत्यसमं ह्यदः । पृच्छाम्यपरमप्यस्मिन्नेतदुत्तरमस्पृहः ॥ १२७॥
१ P. D. सखेचरो. २ D P. ३ P. संधे.