________________
२३२
प्रभावकचरिते बहि गिरिटेर्मूर्ति दृष्ट्वा प्राह च कौतुकात् । एष किं दुर्बलोऽजल्पि सिद्धसारस्वतोऽसि भोः ॥ १२८ अथाह धनपालोपि सत्योक्तौ भवति क्षणः।
अस्तु वा सत्यकथने को दोषो नस्ततः शृणु ॥ १२९ ॥ तथाहि-दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना
भस्माप्यस्य किमंगना यदि वसा कामं परिद्वेष्टि किम् । इत्यन्योन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनं भुंगी शुष्कशिरावनद्धमधिकं धत्तेऽस्थिशेषं वपुः॥ १३० याज्ञवल्क्यस्मृतिं व्यासो बहिः पार्षदमंडले। तारं व्याख्याति भूपश्च तत्र शुश्रूषुरासिवान् ॥ १३१ ।। व्यावृत्त्य स्थितमद्राक्षीद्वयस्यं च ततोऽवदत् । श्रुतिस्मृतिषु तेऽवज्ञावहितो न शृणोषि यत् ॥ १३२॥ सोऽजल्पन्नावगच्छामि तदर्थ व्यस्तलक्षणम् ।
प्रत्यक्षेण विरुद्धं हि शृणुयात्को मतिभ्रमी ॥ १३३ ॥ कथं-स्पर्शोऽमेध्यभुजां गवामघहरो वंद्या विसंज्ञा द्रुमाः
स्वर्गच्छागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः स्फीतं फल्गु चवल्गुच श्रुतिगिरा को वेत्ति लीलायितम्१३४ अथनिष्पद्यमाने च यज्ञे तत्र महापशोः। बद्धस्य हंतुमश्रौषीद्दीनारावं महीपतिः॥ १३५॥ अथ किं जल्पतीत्युक्ते कविचक्री ततोऽवदत् ।
भाषामेषां विजानामि तत्सत्यं शृणु मद्वचः॥१३६॥ तथाहि-अर्काहितदलोछेदी सत्वोल्लासतनुस्थितिः।
नाम्ना गुणैश्च विष्णुर्यः स कथं वध्यतामजः॥१३७॥ नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्ग यांति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बांधवैः॥ १३८॥ श्रीभोजः कुपितस्तस्यापसव्यवचनक्रमैः। दध्यावमुं हनिष्यामि विब्रुवंतं द्विजब्रुवम् ॥ १३९ ॥ साक्षादस्य हतौ किं चापवादः परमो भवेत् । रहः कुत्रापि वेलायां वध्योऽसावेष संश्रयः॥ १४०॥
१ H. गरि० D. भृगिविटे.