________________
श्रीमहेन्द्रसूरिप्रबन्धः।
२३३ तदा चागच्छतो राजपथि खं मंदिरं प्रति । वृद्धा स्त्री दृक्पथप्राया तटस्था बालिकान्विता ॥ १४१॥ नवकृत्वः शिरो धूनयंती वृद्धां विलोक्य सः। नृपः प्राह किमाहासौ ततोवादीत्कृतीश्वरः ॥ १४२॥ किं नंदी किं मुरारिः किमु रतिरमणः किं हरः किं कुबेरः किंवा विद्याधरोऽसौ किमथ सुरपतिः किं विधुः किं विधाता। नायं नायं न चायं न खलु नहि न वा नापि नासौ न चैषः क्रीडां कर्तुं प्रवृत्तः स्वयमिह हि हेतेर्भूपतिर्भोजदेवः ॥१४३॥
श्रुत्वाथ भूपतिर्दध्यौ नववारोचितान् किमु । विकल्पान्नवकृत्वोऽथ तत्रापर्यहरत्ततः॥ १४४॥ शानिवद्वदिता कोन्य एतं दुर्भाषकं विना । निग्रहाहः स किं श्रीमन्मुंजवर्द्धितविग्रहः ॥ १४५॥ कदाचिद्भूपतिर्मित्रं पाप॰वाह्वयत्ततः। ययौ सखेटकास्तत्र शूकरं च व्यलोकयन् ॥ १४६॥ कामं कर्णातविश्रांतमाकृष्य किल कार्मुकम् । बाणं प्राणं दधन् हस्ते व्यमुंचन्यंचदास्यकः ॥ १४७॥ पतितोऽसौ किरि?रं घर्घरारावमारसन् । प्राहुर्विज्ञाः प्रभुर्योधः पार्श्वे वा नान्य ईदृशः॥१४८॥ पंडितशे ततो दृष्टिः श्रीभोजस्यागमत्तदा ।
किंचिद्वदिष्यथेत्युक्ते स प्राह शृणुत प्रभोः॥१४९॥ तच्चेदं-रसातलं यातु यदत्र पौरुषं व नीतिरेषा शरणो ह्यदोषवान् ।
निहन्यते यदलिनापि दुर्बला हहा महाकष्टमराजकं जगत्१५० अन्यदा नवरात्रषु लिंबजागोत्रजार्चने। राज्ञाथ विहिते हन्यमाने छागशते तथा ॥ १५१ ॥ रक्ताक्षे घातरक्ताक्षे बद्ध्वा खगद्विधाकृते । एकघातान् सदेशस्थाः प्रशशंसुर्नृपं हतौ ॥ १५२ ॥ धनपालो जगादाथ करुणैकमहोदधिः ।
एतत्कर्मकृतो विज्ञाः प्रशंसाकारिणोऽपि च ॥१५३ ॥ यतः-पसुवेरुडंविविहसिडं निसुणइसाहुक्कारु ।
तं जाणइ नरयहहु हह दिन्नड संचकाऊ॥१५४॥ अन्यदा श्रीमहाकाले पवित्रारोहपर्वणि। महामहेऽगमद्राजा वयस्यं प्रत्युवाच च ॥१५५॥ सखे त्वदीयदेवानां कदापि न पवित्रकम् ।
अपवित्रास्ततस्ते स्यू राजमित्रं ततोऽवदत् ॥ १५६॥ १ ले. २ H. निंब.