________________
२३४
प्रभावकचरिते
तथाहि-पवित्रमपवित्रस्य पावित्र्यायाधिरोहति ।
जिनः स्वयं पवित्रः किमन्यैस्तत्र पवित्रकैः ॥१५७॥ अपावित्र्यं शिवे चैतद्भक्तमप्यातं यतः। लिंगार्चनं तरं याच्यमानाभ्युपगमाडुवम् ॥ १५८ ॥ मूर्ति श्रीकामदेवस्य रतियुक्तां हसन्मुखाम् । तालिकायाः प्रदानायोदितहस्तां नराधिपः ॥ १५९ ॥ पश्यन् पंडितचंडांशुमाभाषत सकौतुकः। किमेष तालिकां दित्सुहसन् कथयति स्फुटम् ॥ १६०॥ धनपालस्ततः सिद्धसारस्वतवशात्तदा ।
अवदत्तथ्यमेवाशुशानी को हि विलंबते ॥१६१ ॥ तच्चेदं-स एष भुवनत्रयप्रथितसंयमः शंकरो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः॥१६२॥ अन्यदा नृपतिः प्राह तव सूनृतभाषणे । अभिज्ञानं किमप्यस्ति सत्यं कथय तन्मम ॥ १६३॥ चतुद्वारोपविष्टानां केन द्वारेण निर्गमः। स्यादस्माकमिदानीमित्याख्याहि कविवासव ॥ १६४ ॥ ततोऽसौ पत्रकेऽलेखीदक्षराणि महामतिः। ततः समुद्रयित्वा च स्थगीवित्तस्य चार्पयत् ॥ १६५॥ ध्यायन्निति नृपो द्वारचतुष्क्रस्येह मध्यतः। एकेन केनचिद्वारा गतितिा भविष्यति ॥ १६६ ॥ शानिनोप्यस्य वचनमत्र मिथ्या करिष्यते । ततो गते गृहं मित्रे भुक्त्याह्वानं समागमत् ॥ १६७ ॥ मंडपोपरिभागे च छिद्रं प्राप्यत यन्नरैः । तेन छिद्रेण निर्गत्य राजा स्वरचितो ययौ ॥ १६८॥ तन्मध्याह्न कवीशं तमाकार्यापृच्छदद्भुतम् । पत्रकं कर्षयित्वा स स्थगीमध्याददर्शयत् ॥ १६९ ॥ तत्र चोपरिभागेन निर्यास्यति नृपो ध्रुवम् । इति तथ्यं वचस्तस्य ज्ञात्वा राजा चमत्कृतः॥ १७०॥ अन्येयुः सेतुबंधेन प्राहिणोन्नपतिर्नरान् । प्रशस्तिर्विद्यते यत्र विहिता श्रीहनूमता ॥ १७१ ॥ तत्काव्यानयनार्थ ते मधूच्छिष्टस्य पट्टिका। निधायांभोनिधौ मत्स्यवसां जितविलोचना ॥ १७२॥
१ P. हि सन्मु०. २ P. H. पापात.