________________
श्रीमहेन्द्रसूरिप्रबन्धः ।
प्रशस्त्युपरितो बाढं विन्यस्याथ पुनस्ततः । उत्पाद्या परतैलाक्षपट्टिकासु च मीलिताः ॥ १७३ ॥ ततोऽप्युद्धृत्य पत्राल्पमक्षराण्यालिखन्नराः । तानि रक्षः कुलानीव षंडवृत्तान्यतोऽभवन् ॥ १७४ ॥ राज्ञालोक्यंत तान्यत्राविशदर्थानि किं पुनः । हट्टे शाकफलानीव खंडितान्यरसान्पपुः ? ॥ १७५ ॥ पूरयंति निजैः प्रज्ञाविशेषैस्ते महाधियः । परं राज्ञश्चमत्कारकरी कस्यापि नैव वाक् ॥ १७६ ॥ द्विपदी त्रिपदी चैका तन्मध्यादर्पिता ततः । श्रीमतो धनपालस्य बालस्य कविताविधौ ॥ १७७॥ तथाहि-हरशिरसि शिरांसि यानि रेजुर्हरिहरितानि लुठति गृध्रपादैः तद्यथा-स्नाता तिष्ठति कुन्तलेश्वरसुता वारोंग राजस्वसुद्यूतेनाद्य जिता निशा कमलया देवी प्रसाद्याद्य च । इत्यंतःपुरचारिवारवनिताविज्ञापनानंतरं
वचनानंतरं विद्वान् ते समस्ये अपूरयत् ॥ १७८ ॥ तथाहि—अयि खलु विषमः पुराकृतानां ।
२३५
विलसति जन्तुषु कर्म्मणां विपाकः ॥ १७९ ॥ तद्यथा-स्मृत्वा पूर्वसुरं विधाय बहुशो रूपाणि भूपोऽभजत् कीरविद्वान् हसन्नाह जैनोचितमिदं वचः ॥ १८० ॥ तेषां मते परीपाकः कर्मणां हि प्रकथ्यते । समस्यापूरणं ह्येतत्सौवीरामोदमेदुरम् ॥ १८१ ॥ कवींद्रः प्राह कीरस्य रागः स्याद्वद मे ध्रुवः । मलिनांगस्य सत्यं तु सूर्यः प्रकटयिष्यति ॥ १८२ ॥ द्वापंचाशत्पले फाले शुद्धे चेन्मम मानुषम् । अत्रेदृशाक्षराण्येवावश्यमीदृक्प्रतिश्रये ॥ १८३ ॥ कौतुकादथ भूपालस्तत्तथैव व्यधापयत् । राजा मित्रं ततः फाले शुद्धः शुद्धयशोनिधिः ॥ १८४ ॥ प्रतीत एव राजात्र सत्ये को नाम मत्सरी । अथान्येद्युरपृच्छत्तं सुधीशं भोजभूपतिः ॥ १८५ ॥ जैना जलाश्रयद्वारं सुकृतं किं न मन्यते । ततोऽवदत्स तत्रापि सूनृतं सूनृतव्रतः ॥ १८६ ॥ तथाहि - सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा यथेच्छं विच्छिन्नाशेषतृष्णाः प्रहसितमनसः प्राणिसार्था भवंति ।
१ P त्याक्त.