________________
२३६
प्रभावकचरिते शोषं नीते जलौघे दिनकरकिरणैर्यात्यनंता विनाशं तेनोदासीनभावं भजति यतिजनः कूपवप्रादिकार्ये ॥ १८७॥ राजाह सत्यमेवेदं धर्मसत्यो जिनाश्रयः। व्यवहारस्थितानां तु रुच्यो नैव कथंचन ॥ १८८ ॥ ततो राजसखा प्राह पित्राहमपि पाठितः। किंचिज्ज्ञात्वा मयाश्रावि का कथा त्वबुधे जने ॥१८९ ॥ त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं स्तयं हेयं विषयविरतिः सर्वसंगानिवृत्तिः । जैनो धर्मों यदि न रुचितः पापपंकावृतेश्यस्तत्कि न्यूनो घृतमवगतं किंप्रमाद्यति नो चेत् ॥ १९०॥ धनपालस्ततः सप्तक्षेत्र्यां वित्तं व्ययेसुधीः। आदौ तेषां पुनश्चैत्यं संसारोत्तारकारणम् ॥१९१॥ विमृश्येति प्रभो भिसूनोः प्रासादमातनोत् । बिंबस्यात्र प्रतिष्ठां च श्रीमहेंद्रप्रभुर्दधौ ॥ १९२॥ सर्वज्ञपुरतस्तत्रोपविश्य स्तुतिमादधे । जयजंतु कप्पेत्यादि गाथापंचशतामिमाम् ॥ १९३॥ एकदा नृपतिः स्मार्त्तकथाविस्तरनिस्तुषः । वयस्यमवदज्जैनकथां श्रावय कामपि ॥ १९४ ॥ द्वादशाथ सहस्राणि ग्रंथमानेन तां ततः। परिपूर्य ततो विद्वत्समूहैरवधारिताम् ॥ १९५॥ यथार्था काच दोषस्योद्धारा तिलकमंजरी। रसेन कवितारूपचक्षु३मल्यदायिनी ॥ १९६॥ विद्वजनास्यकर्पूरपूराभां वर्णसंभृताम् । सुधीविरचयांचने कथां नवरसप्रथाम् ॥१९७॥ त्रिभिर्विशेषकम् रसां नवपरां कोटिं प्रापिताः कविचक्रिणा। कथायां तत्समाप्तौ च तद्ध्याने परिवर्तते ॥ १९८ ॥ खयूथ्यानामिवामीषा प्रस्तावं ते दधुध्रुवम् । रसानां सततः षण्णामावादमबुधजनः॥१९९॥ दुहित्रा च ततः पृष्टं तातग्रंथः समापि किम् । अहो स्पर्द्धा पितृध्याने सुताज्ञानेथ चित्रकृत् ॥२००॥ अथासौ गूर्जराधीशकोविंदेशशिरोमणिः। वादिवेतालविशदं श्रीशांत्याचार्यमाह्वयत् ॥ २०१॥
१ H यायनी०.२ P D प्रमेह्य. ३ P D व्ययेच्छु. ४ H कथिता. ५J नस्य. ६ P प्राप्तावक०.