________________
श्रीमहेन्द्रसूरिप्रबन्धः ।
२३७ अशोधयदिमां चासावुत्सूत्राणां प्ररूपंणात् । शब्दसाहित्यदोषास्तु सिद्धसारखतेषु किम् ॥ २०२॥ तस्यां व्याख्यायमानायां स्थालं हैमममोचयत् । भूपालः पुस्तकस्याधो रससंग्रहहेतवे ॥२०३॥ तत्र तद्रसपीयूषं पूर्वमाहूतवान् नृपः।। आधिव्याधिसमुच्छेदहेतुमक्षयतृप्तिदम् ॥ २०४॥ संपूर्णायां च तस्यां स प्राह पृच्छामि किंचन । तथा त्वामर्थये किंच तेन धारय मे रुषम् ॥ २०५॥ पूर्वमेव कथारंभे शिवः पात्वेत्यमंगलम् । चतुःस्थानपरावर्त तथा कुरुत सद्विरा ॥ २०६॥ धारासंज्ञामयोध्यायां महाकालस्य नाम च । स्थाने शक्रावतारस्य शंकरं वृषभस्य च ॥ २०७॥ श्रीमेघवाहनाख्याया मम नामकथा ततः। आनंदसुंदरा विश्वे जीयादाचंद्रकालिकम् ॥ २०८ ॥ सुधीः प्राह महाराजन् शुभं प्रत्युपताशुभम् । परावर्ते कृतेऽमुष्मिन् सूनृतं मद्वचः शृणु ॥ २०९॥ पयःपात्रे यथा पूर्णे श्रोत्रियस्य करस्थिते । अपावित्र्यं भवेत्तत्र मद्यस्यैकेन बिंदुना ॥ २१०॥ एवमेषां विनिमये कृते पावित्र्यहानितः। कुलमेते ध्रुवं राज्यं राष्ट्र च क्षीयतेतराम् ॥ २११ ॥ शेषे सेवाविशेषं ये न जानंति द्विजिह्वताम् । यांतो हीनकुलाः किं ते न लजंते मनीषिणाम् ॥ २१२॥ अथ राजा रुषा पूर्णः पुस्तकं तन्यधादसौ। अंगारशकटीवह्नौ जाड्यात्पूर्व पुरस्कृते ॥ २१३॥ ततो रोषाद्वभाणासौ गाथामेकां नृपं प्रति ।
पुनर्नानेन वीक्ष्यामीत्यभिसंधिः कठोरगीः॥२१४॥ साचेयं-मालविउसि किमन्नं मन्नसिकन्नेण निञ्चइतसि ।
धनपालंपि न मुंचसि पुच्छामि सवंचणं कत्तो ॥ २१५॥ अथ वेश्म निजं गत्वा दौर्मनस्येन पूरितः। अवाङ्मुखः स सुष्वाप तदा नास्तृततल्पके ॥२१६॥ न स्नानं देवपूजा न भुंक्ते वार्तापि न स्मृता। वचनं नैव निद्रापि पंडितस्य तदाभवत् ॥ २१७॥
१D त्रादिप्र. २ H हि. ३ PH पान्वेत्य ? ४ म ख्यायां. ५ म वृत्ते.