________________
प्रभावकचरिते
मूर्त्तयेव सरस्वत्या नवहायनवालया । दुहित्रा मन्युहेतुं स पृष्टस्तथ्यं यथाह तत् ॥ २१८ ॥ उत्तिष्ठ तात चेद्राज्ञा पुस्तकं पावके हुतम् । अक्षयं हृदयं मेस्ति सकलां ते ब्रुवे कथाम् ॥ २१९ ॥ स्नानं देवार्चनं भक्तिं कुरु शीघ्रं यथा तव । कथापीठं ददे हृष्टस्ततः सर्वे चकार सः ॥ २२० ॥ कथा च सकला तेन शुश्रुवेऽत्र सुतामुखात् । कदाचिन्न श्रुतं यावत्तावन्नास्याः समाययौ ॥ २२१ ॥ सहस्रत्रितयं तस्याः कथाया अत्रुटत्तदा । अन्यत्संबंधसंबद्धं सर्वे न्यस्तं च पुस्तके ॥ २२२ ॥ अथापमानपूर्णोयमुच्चचाल ततः पुरः । मानाद्विनाकृताः संतः संतिष्ठते न कर्हिचित् ॥ २२३ ॥ पश्चिमां दिशमाश्रित्य परिस्पंदं विनाचलत् । प्राप सत्यपुरं नाम पुरं पौरजनोत्तरम् ॥ २२४ ॥ तत्र श्रीमन्महावीर चैत्ये नित्ये पदे इव । दृष्टे स परमानन्दमाससाद विदांवरः ॥ २२५ ॥ नमस्कृत्य स्तुतिं तत्र विरोधाभास संस्कृताम् । चकार प्राकृतां देव निम्मलेत्यादि सास्ति च ॥ २२६ ॥ दिनैः कतिपयैर्भोजः भूजानिस्तमजूहवत् । नास्तीति ज्ञातवृत्तांतः किंचित्खेदवशोऽभवत् ॥ २२७ ॥ आहे चेचित्यते चित्ते कद्वदोष्णासु यात्वसौ । परस्तत्सदृशो नान्यस्तथ्यवागू भारतीनिभः ॥ २२८ ॥ ईदृक्पूरुषसंसर्गे मंदभाग्या वयं ननु । देशं तस्य कथं हंसवासपुण्यं विजृंभते ॥ २२९ ॥ इत्यस्य विद्यमानस्य चकोरस्य कुहूष्विव । प्रायाद्धर्माभिधः कौलो विद्वांस्तद्वृत्तमुच्यते ॥ २३० ॥ तद्यथा - आधारोनंतगोत्राणां पुरुषोत्तमसंश्रयः ।
आकरोऽनेकरत्नानां लाटदेशोऽस्ति वार्द्धिवत् ॥ २३९ ॥ यत्र मेकलकन्योर्मिनिचयो दर्शनाज्जनम् । पवित्रयेत्तदस्ति श्रीभृगुकच्छाख्यया पुरम् ॥ २३२ ॥ तत्रास्ति वेदवेदांगपारगो वाडवाग्रणीः । सूरदेव इति ख्यातो वेधा इव शरीरवान् ॥ २३३ ॥ सतीशिरोमणिस्तस्य कांता कांतनयस्थितिः । सावित्रीत्याख्यया ख्यातिपात्रं दानेश्वरेषु या ॥ २३४ ॥
1DP पाठं. २ D वे.
२३८